Book Title: Yogmahatmya Dvantrinshika
Author(s): Yashovijay Upadhyay, Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
યોગમાહાભ્યદ્વાચિંશિકા/શ્લોક-૧૫
૬૯ भूतयथी, अणिमादिकम्=कायसंपच्चसने यानी संपत्ति तद्धर्मानभिघातश्चभने तना धर्मनी समिधातभयानाधर्मनी समिधात, जायते-थाय छे. ।।१५।। लोार्थ :
શૂલાદિમાં સંયમ કરવાથી ભૂતજય થાય છે. ભૂતજયથી અણિમાદિ અને કાયાની સંપત્તિ અને કાયાના ધર્મનો અનભિઘાત થાય છે. ૧પII टी :
स्थूलादीति-स्थूलादीनि स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि, पञ्चानां भूतानामवस्थाविशेषरूपाणि, तत्र भूतानां परिदृश्यमानं विशिष्टाकारवत्त्वं स्थूलं रूपं, स्वरूपं च पृथिव्यादीनां कार्कश्यस्नेहोष्णताप्रेरणावकाशदानलक्षणं, सूक्ष्म च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि, अन्वया गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवोपलभ्यमानाः, अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसम्पादनशक्तिरूपं, तेषु क्रमेण प्रत्यवस्थं संयमाद् भूतजयो भवति, कृतैतत्संयमस्य सङ्कल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः, तदुक्तं - "स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः" इति [३-४४] । अस्माद्-भूतजयात्, अणिमादिकं भवति । अणिमा, गरिमा, लघिमा, महिमा, प्राकाम्यं, ईशत्वं वशित्वं, यत्रकामावसायित्वं चेत्यणिमादिकं । तत्राणिमा परमाणुरूपतापत्तिः, गरिमा वज्रवद्गुरुत्वप्राप्तिः, लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः, महिमा महत्त्वप्राप्तिः, अमुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता, प्राकाम्यमिच्छाऽनभिघातः, शरीरान्तःकरणयोः ईशित्वं, सर्वत्र प्रभविष्णुता वशित्वं, यतः सर्वाण्येव भूतानि वचनं नातिक्रामन्ति, यत्रकामावसायित्वं= स्वाभिलषितस्य समाप्तिपर्यन्तनयनं, कायसंपच्च उत्तमरूपादिलक्षणा “रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्" [३-४६] इत्युक्तेः, तद्धर्मानभिघातश्च तस्य कायस्य धर्मा रूपादयस्तेषामभिघातो नाशस्तदभावश्च जायते, न ह्यस्य रूपमग्निर्दहति, न वापः क्लेदयन्ति, न वा वायुः शोषयतीति, तदिदमुक्तं - “ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च" [३-४५] इति ।।१५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148