SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ યોગમાહાભ્યદ્વાચિંશિકા/શ્લોક-૧૫ ૬૯ भूतयथी, अणिमादिकम्=कायसंपच्चसने यानी संपत्ति तद्धर्मानभिघातश्चभने तना धर्मनी समिधातभयानाधर्मनी समिधात, जायते-थाय छे. ।।१५।। लोार्थ : શૂલાદિમાં સંયમ કરવાથી ભૂતજય થાય છે. ભૂતજયથી અણિમાદિ અને કાયાની સંપત્તિ અને કાયાના ધર્મનો અનભિઘાત થાય છે. ૧પII टी : स्थूलादीति-स्थूलादीनि स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि, पञ्चानां भूतानामवस्थाविशेषरूपाणि, तत्र भूतानां परिदृश्यमानं विशिष्टाकारवत्त्वं स्थूलं रूपं, स्वरूपं च पृथिव्यादीनां कार्कश्यस्नेहोष्णताप्रेरणावकाशदानलक्षणं, सूक्ष्म च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि, अन्वया गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवोपलभ्यमानाः, अर्थवत्त्वं च तेष्वेव गुणेषु भोगापवर्गसम्पादनशक्तिरूपं, तेषु क्रमेण प्रत्यवस्थं संयमाद् भूतजयो भवति, कृतैतत्संयमस्य सङ्कल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः, तदुक्तं - "स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः" इति [३-४४] । अस्माद्-भूतजयात्, अणिमादिकं भवति । अणिमा, गरिमा, लघिमा, महिमा, प्राकाम्यं, ईशत्वं वशित्वं, यत्रकामावसायित्वं चेत्यणिमादिकं । तत्राणिमा परमाणुरूपतापत्तिः, गरिमा वज्रवद्गुरुत्वप्राप्तिः, लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः, महिमा महत्त्वप्राप्तिः, अमुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता, प्राकाम्यमिच्छाऽनभिघातः, शरीरान्तःकरणयोः ईशित्वं, सर्वत्र प्रभविष्णुता वशित्वं, यतः सर्वाण्येव भूतानि वचनं नातिक्रामन्ति, यत्रकामावसायित्वं= स्वाभिलषितस्य समाप्तिपर्यन्तनयनं, कायसंपच्च उत्तमरूपादिलक्षणा “रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्" [३-४६] इत्युक्तेः, तद्धर्मानभिघातश्च तस्य कायस्य धर्मा रूपादयस्तेषामभिघातो नाशस्तदभावश्च जायते, न ह्यस्य रूपमग्निर्दहति, न वापः क्लेदयन्ति, न वा वायुः शोषयतीति, तदिदमुक्तं - “ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च" [३-४५] इति ।।१५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004686
Book TitleYogmahatmya Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages148
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy