Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan
View full book text
________________
निरिमानिर्दारित-वैरिकुम्भी सपासिंह स परालमेण। तन्वा तु सौन्दर्यनिवासभूम्या जगाम कीर्तिं भुवि सिंहमध्यः ।।६।। तस्योत्तमाशेषगुणस्य कश्चिन्न मध्यमो नापि गुणो जघन्यः । तस्मिन्न भेजुस्तत एव तृप्तिं ताभ्यां सकामा हि 'नितम्बवत्यः ।१०।। पादौ तदीयौ नवपद्मरागी क्रियाविधानादुपलब्धशोभी। किमद्भुतं यत्पृथिवीपतीनां चूडामणित्वं गुणतोऽजिहाताम् ।।११।।
देवी तु तस्यामृतमत्यभिख्या 'सेन्दो रसांशैरिव निर्मिताङ्गी। तामेव कुर्वन्नलिकामजस्रं तन्मानसास्वादमबोधि कामः ।।१२।। यशोमतिं नाम यशोधपौत्रं 'यशोमृताप्यायितविश्वलोकम् । तया स पुत्रं जनयांबभूव पूसाक्रताय्येव जयन्तमिन्द्रः ।।१३ ।। तत्रात्मसंपद्गुणवत्युदारे यूनि प्रयुज्याखिलराज्यभारम् । निराकुलस्वान्तनिसृष्टरागः श्रियं यशोघश्चिरमन्वभुङ्क्त ।।१४।। अथैकदास्थानगतस्तु राजा निषेव्यमाणो नरलोकनाथैः । आदर्शदृष्ट्या पलितानि दृष्ट्वा जघान तृष्णां विषयेषु भव्यः ।।१५।। राज्यं पृथिव्याः प्रतिपाद्य सघो यशोधरायोर्जितविक्रमाय । विरक्तिभाजां नु शतेन राज्ञां तपोवनं भूमिपतिर्जगाम ।।१६ ।।
१. स्त्रियः २. प्राप्नुताम ३. रानी ४. मा इन्दोरिति पदच्छेदः ५. वश एवागत कीर्ति पीयूषं तेन अग्यायिताः संतोषिताः विश्व लोका येन तम् ६ दर्पणदर्शनेन ७. शुक्लकेशान्

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90