Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan
View full book text
________________
लुब्थकस्तु कृपयोघृतमण्डं वर्धयेति स दिदेश पुलिन्दये। वर्धितः स च तथा पुनरासीन्नृत्यवर्तुलितरम्यकलापः । ।३६ ।। चन्द्रमत्यपि मृता करहाटे कुक्कुरः पुरवरे परिजज्ञे। आसदत्पुनरुपायनभूती तावुभावपि यशोमतिभूपः।।३७ ।। यत्र तो सकलभूतलराज्यं दीर्घमन्वभवतां जनदृष्टौ । तत्र विट्कृमिकुलाशनकष्टं दुर्जयो जगति कर्मविपाकः । ।३८ ।। एकदा तु स निरीक्ष्य निजस्त्री जारमोगसहिता निजहयें। जारचक्षुरुदितस्मृतिरुष्टश्चञ्चुवृक्ण'भकरोदथ केकी ।।३६।। मस्तके विदलितोऽमृतमत्या सव्यथः स निपपात धरित्र्याम् । तं निगृह्य विचचर्व स तु श्वा पूर्वजन्मनि तु चन्द्रमती या।।४०।। तं पुनः प्रियमयूरविघातं भूपतिस्तु नितरामसहिष्णुः ।
रात्रिजागरममारयदुच्चैरक्षदेवनकृता फलकेन।।४।। तो पुनर्नरपतिर्विगतासू वीक्ष्य शोकमधिकं प्रतिभेजे। क्षुद्रतां न गणयन्ति महान्तस्त्वाश्रितेषु हि कृपाबहुलत्वात् ।।४२।। कानने पृथुनि विन्थ्यसमीपे हस्तिसिंहशरभादिनिवासे। तीक्ष्णकण्टकशिखः शललोऽभूज्जीवितात्ययगतः शितिकण्ठः ।।४३ ।। सोऽपि कृष्णभुजगोऽजनि तस्मिञ्जीवितस्य विलये 'मृगदंशः। तं कदाचिदवहत्य जघान प्राच्यवैरकुपितः शललोऽसौ ।।४४।।
१. वछिन्न २. मयूरः ३. कुक्कुरम् ४. निष्प्राणी मतापित्यर्थः ५. मयूर ६. तरक्षुः

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90