Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan
View full book text
________________
निमील्य नेत्रे स्थिरमासनं त्वया
निबध्नता किं भगवन् विचिन्तितम् । फलं च तच्चिन्तनया किमुच्यतां
न निष्फलं यच्चरितं भवादृशाम् ।।१२ ।। अवोचदेवं मुनिरप्युदारथी
रवेत्य भव्यं हृदि चण्डपाशिकम् । अयं ममात्मा सुविविच्य भावितो
भवप्रबन्धार्णवमुत्तितीर्षुणा ।।१३।। निशम्य चैतद्वचनं महामुनेः
स चण्डकर्मा पुनरित्यवोचत । तयोर्न भेदः खलु देहदेहिनो -
र्मयोयते विस्तरतोऽद्य तद्यथा ।।१४।। निगृह्य चौरं तु निकृत्य चोच्चकैः
कदाचिदेकं परमाणुमात्रकम्। · मया हि जीवः खलु नोपलक्षितः
पृथग्भवेच्चेति मयोपलक्ष्यते ।।१५।। तथान्यथा तस्कर एव केवलं
प्रभाय पूर्व तुलयाथ मारितः। तया पुनः संमित एव तत्प्रमः
पृथक्स चेदल्पतयावतिष्ठते ।।१६ ।। प्रवेश्य चोरं हि महत्कुसूलकं
विलिप्य लाक्षां बहिरप्यरन्ध्रकम् । गते हि काले ददृशे शरीरकं
न जीवमार्गस्तदलीक'मुच्यते ।।१७।।
१. जिन
या २. मिथ्या

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90