Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan

View full book text
Previous | Next

Page 70
________________ 3. 32: मुनिर्बभाषे शृणु चोत्तरत्रयं तरी 'कृशानुर्दलितेऽपि खण्डशः । न दृश्यते सोऽरणिमन्धनादृते तथा शरीरे समुपैहि निश्चयम् ।।१८।। प्रमाय भस्त्रां तुलया पुनश्च तां प्रपूर्णवायुप्रमितां विलोकयन् । प्रमाणभेदोऽत्र न दृश्यते यथा तयोः पृथक्त्वेऽपि तथैव निश्चितम् ||१६|| प्रविश्य गेहं पुरुषेऽप्यरन्ध्रकं धमत्यलं शङ्खमुदात्तनादकम् । ध्वनिर्बहिर्गच्छति नास्ति तत्पथ स्तथात्र मन्यस्व विचारपूर्वकम् ॥ २० ॥ स कीदृशश्चेदयमुच्यते महा ननाद्यनन्तः स्वपरावभासकः । J स्वतो ऽन्यतश्चैष पुनः प्रतिक्षणं विवर्तते हेतुफलात्मना क्रमात् ||२१|| स एव कर्ता खलु पुण्यपापयोः स एव भोक्ता सुखदुःखयोस्तथा । उपायसिद्ध्या परिभावितः पुनः स एव तत्कर्ममलैर्विमुच्यते ॥ २२ ॥ प्रयोजनं तत्परिभावनाविधे हितावबोधादहितस्य वर्जनम् । हितं तु सम्यक्त्वमिदं तनुभृतां प्रतीहि तेषामहितं विपर्ययम् ।। २३ ।।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90