Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan

View full book text
Previous | Next

Page 84
________________ ---- ततो भगिन्या सह मुक्त माहया सुदत्तमासाद्य महामुनीश्वरम् । त्यजन्परिष्यन्दमनिन्दया थिया विमोक्षविद्यासुगुणैरशिक्ष्यत । । ६० ।। प्रहर्षिणी इत्थं यी नृपतनयी यशोमतीयी कान्तारे गुरुचरणादुपासिषाताम् । आवां तावभरुचिं तयोस्तु नाम्ना मामुच्चैरभयमतीमिमां वदन्ति । । ६१ । । योद्धता अद्य ते नगरतो बहिर्चने मारिदत्त बसतो महामुनेः 1 वीक्षणाय नियमादिहागता - वग्रहीष्वहि तु चण्डकर्मणा । । ६२ ।। उपजातिः संकल्पहिंसाजनितं तु घोरं भवेषु दुःखं तदिदं स्मरन्तौ । विमुच्य बाल्येऽपि विभूतिमिद्धा मास्तां हि शिष्यौ मुनिपुङ्गवस्य ।। ६३ ।। पृथ्वी क्व कृत्रिमपतत्त्रिणो वधविधिः क्व तद्दुःसहं भवभ्रमणमावयोरिति मनः परीतापिनी । जिघांसुमिह जीवराशिमधुना भवन्तं पुन - विलोक्य कृतविस्मयौ कृतकृपौ च वर्तावहे । । ६४ ।। '96

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90