Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan

View full book text
Previous | Next

Page 88
________________ ! १. देवी वसन्ततिलका विद्यामधीत्य सुचिरं गुरुसन्निधाने तप्त्वा तपश्च बहिरन्तरिति द्विभेदम् । त्यक्त्वा समाधिविधिना तनुमायुरन्ते देवोऽभवत् स नृपतिस्त्रिदिवे तृतीये । । ६६ ।। उपजातिः अल्पं निजायुष्यमवेत्य तौ च तपश्चरित्वा यमलौ यथोक्तम् । योगेन निर्मुच्य शरीरबन्ध मी शानकल्पेऽनिमिषावभूताम्' ।।७० ।। हरिणी अमरवनितामारस्मेरावलोकनगोचरं तरुणतरणिच्छायाचोरं तदा दथतौ वपुः । विषमभवनिःसारीकर्तुर्मुनेः स्मरणावही परमसुखिनी रेमाते ती सुरावस्थस्थिती ।।७१ ।। यसन्ततिलका स्वर्गाथिरोहमवधार्य तयोः सुदत्ता - द्यौधेयभूतलपतेश्च तपोबलेन । तद्विप्रयोगजनितं प्रविमुच्य शोकं प्रीतिं यशोधरनृपः परमां जगाम । ७२ ।। २. स्वर्गस्थिती ७८

Loading...

Page Navigation
1 ... 86 87 88 89 90