Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan

View full book text
Previous | Next

Page 76
________________ असूत सा तौ तनयौ तयोः पुमान् यशोधरश्चन्द्रमती तु कन्यका । अवर्धिषातां 'विधुतत्प्रभानिभी जनस्य नित्यं नयनामृतायितौ ।। ३६ ।। विमुक्तबाल्ये वयसि प्रकुर्वतो - रुदात्तविद्यासु परिश्रमं तयोः । नृपो वनान्ते नियमस्थितं मुनिं निरूपयन्नेव ययौ मृगारवीम् ।। ३७ ।। ततो मृगाणामनवाप्य हिंसनं निवर्तमानो वदनेन शुष्यता । मृगव्यविघ्नो ऽयमिति क्रुषा मुना वचोदयत्पञ्चशतीं च शौवनीम् ।। ३८ ।। तपःप्रभावात्तमनिष्नतीं पुन विलोक्य तां तत्र विवृद्धमत्सरम् । स्वहस्तहिंसां कलयन्तमागतो वणिक्तु कल्याण सुहृत्प्रसङ्गतः ।।३६ ।। उपद्रवं तस्य मुनेर्विलोकय नवोचदेवं स तदा यशोमतिम् । महामुनी देव नमस्त्रियोचिते किमीदृशं कर्तुमिह त्वमर्हसि ।। ४० ।। दुरीहितं किंच यदत्र तत्परं तदेव मुष्णाति भवे भवे शिवम् । चन्द्रचन्द्रप्रभासदृश मनस्तु नित्यं तदपि स्थिरं वह न्नजय्यशक्तिः शतयज्वनो ऽप्ययम् । । ४१ ।। E E

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90