________________
असूत सा तौ तनयौ तयोः पुमान् यशोधरश्चन्द्रमती तु कन्यका । अवर्धिषातां 'विधुतत्प्रभानिभी
जनस्य नित्यं नयनामृतायितौ ।। ३६ ।।
विमुक्तबाल्ये वयसि प्रकुर्वतो - रुदात्तविद्यासु परिश्रमं तयोः ।
नृपो वनान्ते नियमस्थितं मुनिं
निरूपयन्नेव ययौ मृगारवीम् ।। ३७ ।।
ततो मृगाणामनवाप्य हिंसनं निवर्तमानो वदनेन शुष्यता । मृगव्यविघ्नो ऽयमिति क्रुषा मुना
वचोदयत्पञ्चशतीं च शौवनीम् ।। ३८ ।।
तपःप्रभावात्तमनिष्नतीं पुन
विलोक्य तां तत्र विवृद्धमत्सरम् । स्वहस्तहिंसां कलयन्तमागतो
वणिक्तु कल्याण सुहृत्प्रसङ्गतः ।।३६ ।।
उपद्रवं तस्य मुनेर्विलोकय
नवोचदेवं स तदा यशोमतिम् ।
महामुनी देव नमस्त्रियोचिते
किमीदृशं कर्तुमिह त्वमर्हसि ।। ४० ।।
दुरीहितं किंच यदत्र तत्परं
तदेव मुष्णाति भवे भवे शिवम् ।
चन्द्रचन्द्रप्रभासदृश
मनस्तु नित्यं तदपि स्थिरं वह
न्नजय्यशक्तिः शतयज्वनो ऽप्ययम् । । ४१ ।।
E E