Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan

View full book text
Previous | Next

Page 78
________________ १. विना अमर्षणो ऽप्येष करोत्यनुग्रहं विनिग्रहायैव भवत्यकोपनः । अनारतं ज्ञानसमाहितात्मना मलोक सामान्यमिदं विचेष्टितम् ॥ ४२ ॥ ततोऽस्य भक्त्या प्रणिपत्य पादयो गृहाण वाचं कृतदोषशोधनीम् । प्ररोचते तुभ्यमिदं हि मद्वचो न चेदधस्तादवयातुमिच्छसि । ।४३ ।। नृपस्तु तं प्रत्यवदत्कथं त्विमं नमेयमस्तानतनुं मलीमसम् । कुलेन को ऽसाविति निर्णयादृते' वने मृगव्यस्य विनिघ्नकारिणम् । ।४४ ।। वणिक् त्ववादीदयमेव सर्वदा - शुचिः सदाचारनिरुद्धकिल्विषः । जलेन शुद्धिस्त्वपवित्रचेतसां पुरीषमुष्टेर्बहि रम्बुमार्जनम् । । ४५ ।। कुलेन गो ऽयमनङ्गनिर्जयी चिरं कलिङ्गेष्वधिरूढविक्रमः । सुदत्तनामा पुनरद्य तप्यते तपः कुतोऽप्युद्धृतभोगलालसः । । ४६ ।। मृगव्यलीलाविनिघातकारणं यदात्थ देव त्वमनुं तथैव तत् । अमुष्य धर्मप्रकृतेः प्रभावतो बने न पापर्धिरिह प्रवर्तते । । ४७ ।। २. आस्य २. आखेटः ६८

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90