________________
१. विना
अमर्षणो ऽप्येष करोत्यनुग्रहं विनिग्रहायैव भवत्यकोपनः ।
अनारतं ज्ञानसमाहितात्मना
मलोक सामान्यमिदं विचेष्टितम् ॥ ४२ ॥
ततोऽस्य भक्त्या प्रणिपत्य पादयो गृहाण वाचं कृतदोषशोधनीम् । प्ररोचते तुभ्यमिदं हि मद्वचो
न चेदधस्तादवयातुमिच्छसि । ।४३ ।।
नृपस्तु तं प्रत्यवदत्कथं त्विमं
नमेयमस्तानतनुं मलीमसम् ।
कुलेन को ऽसाविति निर्णयादृते'
वने मृगव्यस्य विनिघ्नकारिणम् । ।४४ ।।
वणिक् त्ववादीदयमेव सर्वदा
-
शुचिः सदाचारनिरुद्धकिल्विषः ।
जलेन शुद्धिस्त्वपवित्रचेतसां
पुरीषमुष्टेर्बहि रम्बुमार्जनम् । । ४५ ।।
कुलेन गो ऽयमनङ्गनिर्जयी
चिरं कलिङ्गेष्वधिरूढविक्रमः । सुदत्तनामा पुनरद्य तप्यते
तपः कुतोऽप्युद्धृतभोगलालसः । । ४६ ।। मृगव्यलीलाविनिघातकारणं
यदात्थ देव त्वमनुं तथैव तत् । अमुष्य धर्मप्रकृतेः प्रभावतो
बने न पापर्धिरिह प्रवर्तते । । ४७ ।।
२. आस्य २. आखेटः
६८