________________
3. 32:
मुनिर्बभाषे शृणु चोत्तरत्रयं
तरी 'कृशानुर्दलितेऽपि खण्डशः । न दृश्यते सोऽरणिमन्धनादृते
तथा शरीरे समुपैहि निश्चयम् ।।१८।।
प्रमाय भस्त्रां तुलया पुनश्च तां प्रपूर्णवायुप्रमितां विलोकयन् ।
प्रमाणभेदोऽत्र न दृश्यते यथा
तयोः पृथक्त्वेऽपि तथैव निश्चितम् ||१६||
प्रविश्य गेहं पुरुषेऽप्यरन्ध्रकं
धमत्यलं शङ्खमुदात्तनादकम् ।
ध्वनिर्बहिर्गच्छति नास्ति तत्पथ
स्तथात्र मन्यस्व विचारपूर्वकम् ॥ २० ॥
स कीदृशश्चेदयमुच्यते महा
ननाद्यनन्तः स्वपरावभासकः ।
J
स्वतो ऽन्यतश्चैष पुनः प्रतिक्षणं
विवर्तते हेतुफलात्मना क्रमात् ||२१||
स एव कर्ता खलु पुण्यपापयोः
स एव भोक्ता सुखदुःखयोस्तथा । उपायसिद्ध्या परिभावितः पुनः स एव तत्कर्ममलैर्विमुच्यते ॥ २२ ॥
प्रयोजनं तत्परिभावनाविधे
हितावबोधादहितस्य वर्जनम् ।
हितं तु सम्यक्त्वमिदं तनुभृतां
प्रतीहि तेषामहितं विपर्ययम् ।। २३ ।।