Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan

View full book text
Previous | Next

Page 72
________________ सरागसम्यक्त्वगुणैर्वतरय सदैव बध्नाति हि पुण्यमात्मनि । वदन्ति सम्यक्त्वममन्दमेथसो रुचिं तु जीवादिपदार्थगोचराम् ।।२४ ।। अहिंसनं सत्यमचौर्यमुच्चकै - रकामसेवा विषयेष्यमूचनम्। व्रतानि पञ्चेति फलं त्यनुक्रमा - निभाना दोषामिति गाते बुधैः।।२५ ।। अहिंसनं वैरहरं परं भवे - त्तनोति सत्यं तदमोघवाक्यताम् । अचौर्यमाकर्षति रत्नसंचयं बलावहं ब्रह्मचरित्रमूर्जितम् ।।२६ ।। भवस्य पूर्वापरकोटिभाविनो भवत्यमूर्छा वतिनः प्रवेदनम् । त्यजन्ति सन्तो मधुमद्यमांसक व्रतेषु पुष्टिं विधिवद् विधित्सवः ।।२७।। विविच्य सम्यक्त्वमुदीरितं मया न तत्परं किञ्चिदिहात्मने हितम्। व्रतविहीनोऽपि तदुवहज्जनो ___ न जातु दुःखादिनिवासमृच्छति ।।२८ ।। इह व्रतानां तु विपर्ययेर्जनः प्रविश्य कष्टं भवनाट्यमण्डपम् । विकृत्य नानाविषयोनिभूमिका परिभ्रमन्क्लेशमुपैति केवलम् ।।२६ ।। १. विशालबुद्धयः २. विथातुं कमिभव

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90