________________
सरागसम्यक्त्वगुणैर्वतरय
सदैव बध्नाति हि पुण्यमात्मनि । वदन्ति सम्यक्त्वममन्दमेथसो
रुचिं तु जीवादिपदार्थगोचराम् ।।२४ ।। अहिंसनं सत्यमचौर्यमुच्चकै -
रकामसेवा विषयेष्यमूचनम्। व्रतानि पञ्चेति फलं त्यनुक्रमा -
निभाना दोषामिति गाते बुधैः।।२५ ।। अहिंसनं वैरहरं परं भवे -
त्तनोति सत्यं तदमोघवाक्यताम् । अचौर्यमाकर्षति रत्नसंचयं
बलावहं ब्रह्मचरित्रमूर्जितम् ।।२६ ।। भवस्य पूर्वापरकोटिभाविनो
भवत्यमूर्छा वतिनः प्रवेदनम् । त्यजन्ति सन्तो मधुमद्यमांसक
व्रतेषु पुष्टिं विधिवद् विधित्सवः ।।२७।। विविच्य सम्यक्त्वमुदीरितं मया
न तत्परं किञ्चिदिहात्मने हितम्। व्रतविहीनोऽपि तदुवहज्जनो ___ न जातु दुःखादिनिवासमृच्छति ।।२८ ।। इह व्रतानां तु विपर्ययेर्जनः
प्रविश्य कष्टं भवनाट्यमण्डपम् । विकृत्य नानाविषयोनिभूमिका
परिभ्रमन्क्लेशमुपैति केवलम् ।।२६ ।।
१. विशालबुद्धयः २. विथातुं कमिभव