Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan

View full book text
Previous | Next

Page 64
________________ * चतुर्थः सर्गः वंशस्थवृत्तम् अथैकदासौ नृपतिर्भधूत्सवे', बने प्रवृत्ते कुसुमावलीसखे । मुदा तदात्मानमिवावलोकितुं, जगाम विस्तारितहृद्यसौरभम् ॥१॥ उपेयुषस्तस्य वनं मधुश्रिया, कलक्वणत्कोकिलकण्ठनादया । अकथ्यत स्वागतमुर्दरापते - ध्रुवं नवीनोद्गमशुभ्रहासया ||२ || निकामतन्व्यः प्रसवैः सुगन्धय स्तदा दधानास्तनुभिः प्रवालताम् । इतस्ततो जग्मुरिलापतेः स्त्रियो, लतास्तु न स्थावरतां वितत्यजुः ॥ ३ ॥ ॥ उपस्थिते पुष्पसमृद्धिविप्लवे, भयादिवाकम्पि 'मरुद्धशैर्दुमैः । अनल्पसंवासकृतः कृतस्वना, - प्रपद्य तानन्वरुदन्निवालयः ॥ ४ ॥ दुराक्रमांस्तुङ्गतया तु मानवैः सुदूरमध्या- रुरुहुलतास्तरून् । तदग्रभागे कुसुमश्रियः स्वयं निवासरक्षामिव कर्तुमिच्छवः । । ५ । । १. वसन्तोत्सवे यासां वासा भावस्ताम् ३. किसलयता, प्रकृष्टा वाला केशाः २. नूतन पुष्पशुक्लहासा ४. पृथिवीपतेः ५ वायुवशैः

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90