________________
* चतुर्थः सर्गः
वंशस्थवृत्तम्
अथैकदासौ नृपतिर्भधूत्सवे', बने प्रवृत्ते कुसुमावलीसखे ।
मुदा तदात्मानमिवावलोकितुं,
जगाम विस्तारितहृद्यसौरभम् ॥१॥
उपेयुषस्तस्य वनं मधुश्रिया, कलक्वणत्कोकिलकण्ठनादया ।
अकथ्यत स्वागतमुर्दरापते -
ध्रुवं नवीनोद्गमशुभ्रहासया ||२ || निकामतन्व्यः प्रसवैः सुगन्धय
स्तदा दधानास्तनुभिः प्रवालताम् । इतस्ततो जग्मुरिलापतेः स्त्रियो,
लतास्तु न स्थावरतां वितत्यजुः ॥ ३ ॥ ॥ उपस्थिते पुष्पसमृद्धिविप्लवे,
भयादिवाकम्पि 'मरुद्धशैर्दुमैः ।
अनल्पसंवासकृतः कृतस्वना,
-
प्रपद्य तानन्वरुदन्निवालयः ॥ ४ ॥
दुराक्रमांस्तुङ्गतया तु मानवैः
सुदूरमध्या- रुरुहुलतास्तरून् । तदग्रभागे कुसुमश्रियः स्वयं निवासरक्षामिव कर्तुमिच्छवः । । ५ । ।
१. वसन्तोत्सवे यासां वासा भावस्ताम्
३. किसलयता, प्रकृष्टा वाला केशाः
२. नूतन पुष्पशुक्लहासा ४. पृथिवीपतेः ५ वायुवशैः