Book Title: Yashodharcharitam
Author(s): Rajsuri, Pannalal Jain
Publisher: Shivsagar Digambar Jain Granthamala Rajasthan
View full book text
________________
'प्रत्ययस्तु सुदृढो जिनधर्मे मत्कुलक्रमभुवां हि नृपाणाम् । तत्र हिंसनमतीव हि निन्धं नारकादिभवदुःखनिमित्तम् ।।१८ ।। पुत्रवत्सलतया पुनरेवं देवि मा स्म वचनं मयि वादीः । इत्यनेन नचदेन कोपा उदात्म्य पुराताटीत् ।।६।। अस्तु मद्वचनलङ्घनमेतदस्तु ते मतमहिंसनमय॑म् । अन्यथा तनय तर्पय देवी शालिपिष्टमयकुक्कुटहत्या ।।२०।। इत्यनुक्षणमुदीरितवाचो मातुराग्रहमवेत्य स दथ्यो। अन्यदुक्तमिदमन्यदिदानीमामत तदिह किं करवाणि ।।२१।। मातुरुक्तमवमन्तुमयुक्तं कुत्सितस्तनुभृतामपि घातः । हन्त केन विधिना मम चित्तं संकटे निपतितं पुनरस्मिन् ।।२२।। 'चेतनप्रतिकृतावपि हिंसा कल्पिता भवति चेतन एव। आनवो यदभिसन्थिविशेषः कर्मणामभिहितो मुनिमुख्यैः ।।२३।। इत्यनुस्मृतविवेकरसोऽपि प्रेरितः सपदि मातरि भक्त्या। अम्बया सह महीपतिरुच्वैश्चण्डिकागृहमयान्नयहीनः ।।२४।। अष्टमीदिवसमङ्गलवारे "शुद्धभाजि सुतरामिषमासे। त्रिःप्रदक्षिणकृतो नरनाथश्चण्डिकामनमदानतमौलिः ।।२५।। तत्र कृत्रिममसौ 'कृकवाकुं चित्रसौष्ठवनिवासितदैवम् । देवि तृप्य वलिरेष तवेति व्याजधान निजखड्गमुखेन।।२६ ।।
१. विश्वासः २. चेतनस्य मृतौ अपि ३. अभिगवशेषैः ४. शुक्लपक्षीयः १. कुक्कुट ६. मायापार

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90