Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठिका श्री व्यवहारसूत्रस्य ॥१॥ उक्त कम्पाध्ययनम्, इदानी व्यवहाराध्ययनमुच्यते, तस्य चायमभिसंबंधः, कल्पाध्ययने आभवत् प्रायश्चित्तमुक्तं, न तु दान प्रायश्चित्त दानं, व्यवहारे तु दानप्रायश्चितमालोचनाविधिश्चाभिधास्यते. तदनेन संबंधेनायातस्याऽस्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते । अस्य च महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति । तथाहि यथा नगरमकृतद्वारमनगरं, कृतैकवारमपि च दुरधिगम, कृतचतुर्मूलवारं तु प्रतिद्वारानुगतं सुखाधिगममेवं व्यवहाराध्ययनपुरमप्यर्थाधिगमोपायशून्यमशक्याधिगममेकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्धारानुगतं तु सुखाधिगममिति फलवान् द्वारोपन्यासः, अनुयोगद्वाराणि नाम अध्ययनार्थप्रवेशमुखानि, तानि च अमूनि-उपक्रमो, निक्षेपोऽनुगमो, नया इति; तत्र उपक्रमणमुपक्रमः, शास्त्रस्य समीपीकरणं, निक्षेपणं निक्षेपो नामादिन्यासः अनुगमनमनुगमः सूत्रस्यानुरूपमर्थाख्यानं, नया नैगमादयो वस्तुनः पर्यायाणाम् यथासंभवमधिगमकारिणः, तत्रोपक्रमो द्विविधः शास्त्रीय इतरश्च, इतरः पदप्रकारः नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , तत्र नामस्थापने सुप्रतीतेद्रव्योपक्रमो द्विविधः, श्रागमतो नोागमतश्च, आगमत उपक्रम शब्दार्थस्य ज्ञाता तत्र चानुपयुक्तोऽनुपयोगो द्रव्यमिति वचनात् ।। नोआगमतस्त्रिविधो, ज्ञशरीर भव्यशरीर तव्यतिरिक्तभेदात् । तत्र यद् उपक्रम शब्दार्थज्ञस्य शरीरं जीवविप्रमुक्तं सिद्धिशिलातलादिगतं, तद्भूतभावित्वात ज्ञशरीरद्रव्योपक्रमः, यस्तुबालकोनेदानीमुपक्रमशब्दार्थमवबुध्यते, अथचाऽवश्यमायत्यां भोत्स्यते, संभावनाभाविनिबंधनत्वाद् भव्यशरीरद्रव्योपक्रमः ज्ञशरीर भव्यशरीर व्यतिरिक्त विविधः सचित्ताचित्तमिश्रभेदात् । तत्र सचित्तद्रव्योपक्रमो द्विपद चतुः पदापदोपाधिभेदभिन्नः पुनरेकैको द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र द्रव्यस्य गुणविशेषपरिणामकरणं परिकर्म, तस्मिन् सचित्र द्विपदद्रव्योपक्रमो यथा पुरुषस्य वर्णादिकरणं, सचित्रचतु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 330