Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षेत्रप्रमाणे काल प्रमाणं भावप्रमाणं च तत्र व्यवहागध्ययनं भाव आत्मकत्वाद् भाचप्रमाणविषयं, तदपि भावप्रमाणं विधा तद्यथा गुणप्रमाणं नयप्रमाणं संख्याप्रमाणं च, गुणप्रमाणमपि द्विधा. जीवगुणप्रमाबमजीवगुणमाणं, तत्र जीवादपथग्भूतव्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तदपि जीवगुणप्रमाणं त्रिधा ज्ञानदर्शनचारित्रभेदात् , तत्र बोधात्मकत्वात् व्यवहाराध्ययनस्य ज्ञानगुणप्रमाणे समवतारः तत्र ज्ञानगुणप्रमाणं प्रत्यक्षानुमानागमोपमानभेदात् चतुष्प्रकार, तत्र व्यवहाराध्ययनस्य प्रायः परोपदेशसव्यापेक्षत्वादागमे समवतारः, आगमोऽपि लौकिकलोकोत्तरभेदाद द्विधा तने व्यवहाराध्ययनं परमर्षिप्रणीतत्वात् लोकोत्तरे समवतरति, सोपि द्विधा आवश्यकमावश्यकव्यतिरिक्तश्च तत्रेदमावश्यकव्यतिरिक्त आवश्यकव्यतिरिक्तोपि द्विधा अंग प्रविष्टो अनंगप्रविष्टश्च तत्रेदमनंगप्रविष्टः सोपि द्विधा कालिकोत्तालिकभेदात् तत्रेदं कालिके, सोपि सूत्रार्थोभयात्मानंतरपरंपरभेदभिन्नः, तत्रेदं सूत्रार्थ रूपत्वात्तदुभये, तधेदं गणभृतां गौतमादीनां सूत्रत आत्मागमस्तच्छिष्याणाम् जंबूस्वामि प्रभृतीनामनंतरागमः प्रशिष्याणाम् तु प्रभवादीनां परंपरागमः अर्थतो भगवतामहतामात्मागमो गणधराणामनंतरागमः तच्छिष्याणां परंपरागमः, नयप्रमाणे तु नास्य संप्रत्यवतारो मृढनयत्वात् उक्तं च मूढनइयं सुर्यकालियं च इत्यादि, संख्यानामस्थापनाद्रव्यक्षेत्रकालोपमपरिमाणभावभेदात् अष्ट प्रकारा यथानुयोगद्वारेषु तथा वक्तव्या, तत्र कालिकश्रुतपरिमाणसंख्यायां समवतारः नोत्कालिकश्रुतपरिमाणसंख्यायां, नापि दष्टिवाद श्रुतपरिमाण संख्यायां, कालिकश्रुतपरिमाण संख्याऽपि द्विधा सूत्रतोऽर्थतश्च तत्रार्थतोऽनंतपर्यायत्वादपरिमितपरिमाणं सूत्रतः परिमितप्रमाणं अक्षरपदपादश्लोकगाथादीनां संख्यातत्वात् , संप्रति वक्तव्यता साच त्रिधा स्वसमयवक्तव्यता परसमयवक्तव्यता उभयसमयवक्तव्यताच, For Private and Personal use only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 330