Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पीठिका श्री व्यव स्वसमय स्वसिद्धांतवक्तव्यता पदार्थविचारः तत्र प्रायेण सर्वाण्यपि अध्ययनानि स्वसमयवक्तव्यतायां समवतरंतीत्यस्यापि हारसूत्रस्य स्वसमयवक्तव्यतायां समवतारः।। इदानीमर्थाधिकारः सचेह दान प्रायश्चित्तमा भवत् प्रायश्चित्तमालोचना विधिश्च; संप्रति समवतारः, स च लाधवार्थ प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव, उक्तः उपक्रमः. इदानी निक्षेपः स च त्रिधा ओघनिष्पनो नामनिष्पन्नः * सूत्रालापकनिष्पन्नश्च तत्रौधोनाम यत्सामान्यशास्त्राभिधानं तच्च चतुर्की अध्ययनमक्षीणमायः क्षपणा च, एकैकं नाम स्थापना द्रव्यभावभेदेन चतुर्भेदमनुयोगद्वारतः प्रपंचेनाभिधाय भावाध्ययनभावक्षीणभावायभावक्षपणास्वेतदध्ययनमायोज्यं, नामनिष्पन्ने निक्षेपे व्यवहारः इति, व्यवहियते यत् यस्य प्रायश्चित्तमाभवति स तदानविषयीक्रियतेऽनेनेति व्यवहारः, नृस्त्रोभावात् समच हल इति करणे घप्रत्ययः तत्र व्यवहारग्रहणेन व्यवहारी व्यवहर्तव्यं चेति द्वितयसचितमेव तव्यतिरेकेण व्यवहारस्यासंभवात् न खलु करणं सकर्मकक्रियासाधकतमरूपं कर्मकारं च विना कचित्संभवदुपलब्धमिति, ततो यथा व्यवहारस्य प्ररुपणा कर्त्तव्या तथा व्यवहारि व्यवहर्त्तव्ययोरपीति, त्रयाणामपि प्ररूपणां चिकीर्षु र्भाष्यकृदेतदाह. ववहारो ववहारी ववहरियव्वा य जे जहा पुरिसा, एएसि तु पयाणं, पत्तेयं परूवणं वोच्छं । भा १॥ ____ व्यवहार उक्तशब्दार्थः, व्यवहरतीत्येवंशीलो व्यवहारी व्यवहारक्रियाप्रवर्तकः, प्रायश्चित्तदायीति यावत् , तथा ये पुरुषा पुरुषग्रहणं पुरुषोत्तमो धर्म इति ख्यापनार्थमन्यथास्त्रियोपि दृष्टव्या स्तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् , यथा येन वक्ष्यमाणेन प्रकारेण व्यवहर्तव्या व्यवहार क्रियाविषयीकर्तव्याः, पाठांतरं जे जहा काले अस्या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 330