Book Title: Vijaynandansuri Smarak Granth
Author(s): Ratilal D Desai
Publisher: Visha Nima Jain Sangh Godhra

View full book text
Previous | Next

Page 505
________________ [४२१] આ. વિ. નંદનસૂરિ સ્મારકગ્રંથ પૂ. આ. શ્રી વિજયનંદનસૂરીશ્વરજીની થોડીક સાહિત્ય-પ્રસાદી [१] श्रीस्तम्भनपार्श्वनाथ जिनाष्टकम् श्रीमत्स्तम्भनपार्श्वनाथभगवन् ! लग्नं मनो मे त्वयि, तृप्तिं याति तथापि तच्च तरलं नाद्यापि संमृच्छितम् । तन्नाथ ! त्वरवा कृपैकसुधया मां सिञ्च सिञ्च प्रभो ! येन त्वन्मयतां गते नु हृदये नाप्नोमि दुर्वेदनाः ॥१॥ श्रीपार्श्वः प्रगटप्रभावकलितः श्रीस्तम्भनाधीश्वरो, क्लेशान्नो विविधान् कषाय जनितानिर्मलमुन्मूलयन् । सच्चिद्ब्रह्ममयो विशुद्धपरमज्योतिर्मयोऽर्हन् सदा, प्रेमाद्वैतमयस्तनोतु कुशलं 'सोऽहं' पदाध्यासितः ॥२॥ ऐश्वर्य न मनोरमं मम तथा राज्यं न भाति प्रिय, नैवाह्लादकराणि मेऽत्र हृदये रम्याणि हाणि च । चिन्तारत्नमपि प्रभो ! भवति नो प्रेयः पुनः सुप्रियं, चकं ते चरणाम्बुजस्य शरणं श्रीस्तम्भनाधीश्वर ! ॥३॥ नाथ ! त्वत्प्रतिबिम्बदर्शनकृते पादौ समुत्कण्ठितौ, नेत्रे नाथ ! तवास्यदर्शनपरे चाञ्चल्यपूर्ण सदा । हस्तौ स्तम्भनपार्श्व ! ते स्तुतिततिबद्धादरौ मे प्रभो ! साक्षात्कारमथाहमेकमनघं वाञ्छामि ते ध्यानतः ॥४॥ त्वल्लावण्य निरूपणे च कुशले स्वस्थे विभो ! चक्षुषी, त्वन्नामामृतकुम्भपानकविधौ श्रोत्रे समुल्लासिनी । यस्य त्वच्चरणाम्बुजैकविषया भक्तिदृढा मानसे, दृष्टिः स्तम्भनपार्श्व ! ते सकरुणा धन्यस्य तस्योपरि ॥५॥ नीरोगोऽभयदेवसरिभगवान् पार्श्व ! प्रभावाच्च ते, येनाकारि नवागमाङ्गविवृतिश्चैत्यप्रतिष्ठा पुरा । वेदाष्टाङ्कमहीसमे पुनरहो श्रीनेमिसूरीश्वरः, प्रासादं विशदं प्रतिष्ठितविधिं चाकारयत्सोत्सवम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536