Book Title: Vijaynandansuri Smarak Granth
Author(s): Ratilal D Desai
Publisher: Visha Nima Jain Sangh Godhra
View full book text
________________
પરિશિષ્ટ : આ. મની હયાતીની કેટલીક સામગ્રી
[४४५
[3] । आचार्यप्रवरश्रीमन्नन्दनसूरीश्वरगुणानुकीर्तनम् ॥ रचयिता-पण्डित भालचन्द्र दयाशंकर कवि, खंभात भक्तियन गरीयसी किल सतामाह्लादयित्री परा, श्रीमत् स्तंभनपार्श्वनाथचरणाम्भोजद्वये स्थापिता । एवं येन मुनीश्वरेण जननं नजं कृतं सत्फलं, श्रीमन्नन्दनसरिराट् स जयतात् सच्चक्रचूडामणिः ॥ १ ॥ श्रीसिद्धान्तरहस्यवर्णन क्रियाव्याख्याविधौ कौशलं, वाणी सज्जनकर्षणेकरसिका चेतश्चमत्कारकृत् । नैर्मल्यं मनसः परं विजयते योगक्रियायामहो, श्रीमन्नन्दनसूरिराट् स जयतात् सच्चक्रचूडामणिः ॥२॥ शान्तः सद्गुणराजिराजिततनुर्विद्यावतामग्रणीत्सिल्ये जनकोपमश्च क्षमया राराजते धर्मराट् । गाम्भीर्येऽद्भुतभावभाजिनितरां योऽस्तीह नीरेश्वरः श्रीमन्नन्दनसरिराट् स जयतात् सच्चक्रचूडामणिः ॥ ३॥ भव्यानामभयङ्करश्च गुणिनां मूल्याङ्कनाधायकः, सारासारविचारचारपरमो विद्वन्महिष्ठः सुधीः । भूतानामनुकम्पने स्थिरमतिनित्यं त्वहिंसावती, श्रीमन्नन्दनसूरिराट् स जयतात् सच्चक्रचूडामणिः ॥४॥ नित्यं विज्ञजनानुरञ्जनपरा विज्ञानपियूपिणी, आत्मैक्यस्य विवर्षिणी सहृदयानालादयन्ती भृशम् । मोहान्ध्यस्य विनाशिनी वितनुते यद्वाग्विनोदं परं, श्रीमन्नन्दनसू रिराट् स जयतात् सच्चक्रचूडामणिः ॥ ५ ॥ योऽसौ श्रीजिनपादपद्मयुगलं ध्यात्वा निजे मानसे, साम्राज्ये विरतेरभूदनुपमः सम्राट्पदाधीश्वरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536