Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ 8 ८ - श्रीचन्द्रप्रभजिनस्तुतिः (प्रमाणिकाछन्दः) * विशालवंशभूषणः, प्रणष्टकर्मदूषणः । ममाष्टमो जिनेशिता, तनोतु तां जगत्पिता ॥१॥ जिना दिशन्तु मे समे, समग्रसौख्यसङ्गमे । शिवालये पदं विभा - भरेण सूर्यसन्निभाः ॥ २॥ जिनोत्तमागमं सदा, कुरुध्वमानने मुदा । भवार्णवौधतारकं, विनोदवृन्दकारकम् ॥३॥ जिनेन्द्रपादपावितः प्रभूतभक्तिभाव (वि)त: । ददातु यक्षनायकः, समाङ्करस्मसायकः ॥४॥ Jain Education International } ९- श्रीसुविधिनाथस्तुतिः (भद्रिकाछन्दसा) १ आनुवे सुविधिनायकं भव्यजन्तुभवतायकम् । कर्म्मशत्रुभटभञ्जनं, साधुलोककृतरञ्जनम् ॥१॥ शं दिशन्तु सुजिनेश्वराः सर्वजन्तुषु कृपापराः । सिद्धिसाधुरमणीवराः पादनम्रजनशङ्कराः ॥२॥ श्रीजिनागममहर्निशं संश्रयेऽहमतिसद्वशम् । क्षीरनीरनिधिसन्निभं सूक्तिशक्तिरिव निर्निभम् ॥३॥ यो जिनः, कुमतितान्तिदः साध्यराड् भवतु शान्तिदः । जैनशासनविभासनः प्राणिनां कृतसुवासनः ॥४॥ 1 अनुसन्धान ३४ १० - श्रीशीतलजिनस्तुतिः ( --- छन्दसा ) 10 वन्देऽहं श्रीशीतलजनुषं, श्रीवत्साङ्कं काञ्चनवपुषम् । नन्दाजातं श्रीपतिविनतं मुक्तिप्राप्तं सुन्दररवितम् ॥१॥ ९. अतिसन्तः - अत्युत्तमाः, तेषां वशे यस्या (योऽ) सावतिसद्वशस्तम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22