Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
नवम्बर
17
ममतामिथ्यानिरस्ता अमितगुणमणीगन्धमातासमानाः, समतासीमन्तिनीशाः पदनतजनता प्रत्तरामानिधानाः ॥२॥ गणधारैर्भाषितं यद्गमनयबहुलं लङ्घनीयं न देवैधिषणावद्भिनिषेव्यं त्रिभुवनविदितं संस्तुवे पूतहेवैः । अविसंवादिप्रमेयं रुचिरतरवचो वर्णनीयं प्रगल्भैरमितार्थं व्यर्थहेतुव्यपगमनिपुणं प्रस्फुरद्दिव्यवल्मैः(ल्भैः?) ॥३।। विदधातु स्वर्निवासी प्रवचनवरिवस्याविधानाभिरूपः, सबल: सन्तापहर्ता विदुरनरचमत्कारकारिस्वरूप: । प्रबलारिष्टप्रह" जिनमतसततोपासकप्राणभाजां, कुशलं गोमेधनामा करकृतनकुलाहिः स्फुरत्पुण्यभाजाम् ॥४॥
२३ - श्रीपार्श्वनाथस्तुतिः
(वृन्दारकच्छन्दः) जिनेशमभिनौमि तं दलितमोहमायान्धकारप्रचारं सदा, दिनेशसममुत्तमं निहतरागरोषादिदोषं युतं सम्पदा । सुरेशजनसंस्तुतं नृपतिलोकनम्रीकृतं पार्श्वनाथप्रभु, महेशपदवीश्रितं कमठमानवज्जापितं लोकरक्षाविभुम् ।।१।। समस्तजिनमण्डलं मम पुनातु विश्वत्रयीज्ञातसद्विस्तरं, कठोरवृजिनोच्चयक्षयकरं समश्वेतकल्याणकुप्रस्तरम् । विमुद्रवहनाम्बुजप्रमदकृतसुखं श्रेणीविश्राणनाकोविदं, विसारिगुणसञ्चयप्रसृतविश्वभावावबोधस्फुरत्संविदम् ॥२॥ जिनेन्द्रवचनामृतं मम लुनातु दुःखावलिं पातकान्तंकजा, प्रभूतजनिसञ्चितप्रबलदुष्टदोषप्रकर्षा रजस्सङ्गजाम् ॥ भवामयभरागदं चतुरचित्तचातुर्यदानप्रधानो(नौ)जसं, कृपाशमरसात्मकं कुमतकौशिकव्यूहहंसोल्लसत्तेजसम् ॥३।। धिनोतु जनमानसं धरणराजनागेन्द्रपत्नी सुपद्मावती, विचारचतुराञ्चितं परमसुन्दराकारसद्रूपशोभावती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22