Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ नवेम्बर 19 अक्षयमुख्याः सर्वाः सहल्लब्धय इह पृथ्वीविदिततरायास्तदमत्रं, मुख्यगणाधीशो धेयान्मां विपदपतन्तमतिपरिपूर्णः सुचरित्राम् ॥१॥ तीर्थकरास्ते भूयासुर्मा परमपदाप्त्यै सुरनरनूता: शमपूताः, केवलचिद्रूपालोकालोकितभुवना भोगविरतचित्ता भ्रमधूताः । पातकजातानेकासातप्रकरकुबाधाव्यथितजनानां रतिकाराः, सुरतपूर्त्या नेत्रानन्दप्रथनसुधीदीधितिसमयादाः समताराः ।।२।। आगमवाक्यं साधुश्रेष्ठैर्विदुरजनानामुपकृतिहेतोरुपनीतं, बादरसूक्ष्मप्राणाजीवप्रमुखविचारव्रजभृतमध्यचरजीतम् । ज्ञानदयादानव्याख्यानाद्यनणुगुणालीग्रथितसुशास्त्रं गतदोषं, कर्णपुटाभ्यां यैरानिन्ये भविकनरास्ते शिवसुखमीयुः कृतजोषम् ॥३॥ शासनदेवा देव्यः सर्वा मुनिनिवहानामचलसुखं ते जिनभक्ता, ये हतदुष्टवाता: कुर्युर्यमनियमाचारनयरतानां रसरक्ताः । पण्डितलक्ष्मीकल्लोलस्पर्शननिपुणा निर्मथितविकारा अतिशिष्टाः, स्वीकृतसन्धानिर्वाहाः सज्जनपरमानन्दपदनिदानाहितकष्टाः ॥४॥ [अथ स्तुतिकृतो नामनिर्देशकं वृत्तम्एवं श्रीजिनपुङ्गवाः स्तुतिपथं नीताश्चतुर्विंशतिः, श्रीमद्वीरविनेयगौतमयुताः सद्वर्द्धमानाक्षरैः । वृत्तनिर्भरभक्तिसम्भृतमनोवृत्त्या मया काम्यया, मुक्तिस्त्रीपरिरम्भणस्य कमलाकल्लोलमेधाविना ॥१॥ इति श्रीप्रतिस्तुतेर्जिनसङ्ख्याप्रमाणवर्द्धमानाक्षरा अनुप्रासालङ्कारमय्यश्च श्रीगौतमगणधरस्तुतियुताश्चतुर्विंशत्यर्हतां स्तुतयः पूर्वाचार्यै रकृतपूर्वी विनोदमावतया मया कृतपूर्वी उ० श्री ५ श्रीहर्षकल्लोलप्रसादात् । - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22