Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
18
प्रमोदपरिपूरिता जनितजैन लोकप्रकाण्डोल्लसत्सम्पदा, मनीषिजनतास्तुता विशदबुद्धिसंसिद्धिसर्वद्धिसिद्धिप्रदा ॥४॥
२४ - श्रीवर्द्धमानजिनस्तुतिः (विभ्रमगतिच्छन्द: ) 24
सिद्धार्थान्वयमण्डनं जिनपतिस्त्रैलोक्यचूडामणिर्जितपावकः, पञ्चास्याङ्कितभूघनो घनगभीरध्वानविस्तारयुगादघातकः । संसारार्णवसेतुबन्धसदृशः सिद्ध्यङ्गनासङ्गमी गतकन्दल:, जीयाद्यः कमनप्रतापहननस्थाणूपमप्राणभृच्छमशम्बलः ॥१॥ सर्वे सार्वचयाः सुपर्वनिचयाधीशप्रमोदस्तुताहितवाचका:, चारित्रावसरापवर्जनकला दारिद्रविद्रावणोद्धृतयाचकाः । जीयासुः प्रतिकृष्टकर्मनिकरच्छेदोद्यताः पादपूतरसातलाः, प्रोन्मीलत्कमनीयकान्तिकलितास्तत्त्वार्थविद्भास्करप्रग्रहामलाः ॥२॥ यज्जैनेन्द्रवच: प्रभावभवनं दुर्वादिगर्वापहं जनपावनं, सेवे शान्तरसामृतोद्भवमहं पुण्याङ्करार्णोधरं शुभभावनम् । शुद्धाचारनिरूपणव्रतधनस्वर्गापवर्गप्रदं मतिमिश्रितं, सर्वात्मप्रतिपालनासु ललितं कुन्मानमायाहृति व्रतिसंश्रितम् ॥३॥ मातङ्गोऽर्हदुपासकः प्रकुरुतात् वः श्रेयसं प्राणिनां सुमनोवराः, श्रीसङ्घस्य कृपाकरो मुनिमन: श्रेणीसमुल्लासकः सुमनोहरः । मातङ्गोपरिसंस्थितो भुजयुग: श्यामः सकर्णावली नुतलक्षणः, सर्वप्राण्युपकारकारणकलासक्तः सुदृष्टिः सदाऽतिविचक्षणः || ४ ||
अनुसन्धान ३४
२५ - श्रीगौतमगणधरस्तुतिः )25
Jain Education International
ज्ञाततनूजाद्यान्तेवासी सकलचरित्रादिगुणनिधानं हितकर्त्ता, गौतमनामा दीव्यद्धामा विमलयशः कायवसुमतीपीठविहर्त्ता ।
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22