Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
16
२१ श्रीनमिनाथस्तुतिः (चन्दनप्रकृतिच्छन्दः) 21
जिनेशपावकध्यानाऽत्यमलतरमतिरभिनवगुताः, सदा नमे ! पदाम्भोजं तव शमविदलितकलुषकण: 1 भजामि विश्ववात्सल्यं चरमपरमपदसुखकरणं, भवाब्धिमग्न भव्यौघप्रवहणसदृशविहितशरणम् ॥ १ ॥ दिशन्तु मां जिना: सौख्यं कलिमलदलगलितकलं, व्यथाप्रथापथातीतामदमदनखलविदलितथलम् ।
समस्तवासवार्चाऽर्हाः शमसंयमनियमपरिकलिताः,
प्रभूतलक्ष्मणाकीर्णाश्चलननलिननतजनफलिताः ॥२॥ जिनोदितं ममेष्टार्थं वितरतु यमशमगमललितं, प्रकामभाग्यसंस्कारप्रकटितशुभफलमुनिमिलितम् । विचारसारसम्भारप्रथनकथितसुकृतकलफलं,
अनुसन्धान ३४
समग्रभावसूचाया अतिविदितविषज्ञधरणितलम् ॥३॥ सशासनोन्नतिप्रो भृकुटिरिति विबुधजनविदितं, नमेर्भुजिष्यतां प्राप्तः सततमिति यतिपतिनिगदितम् । करोतु तन्ममाधानं शिवसदनगमनरसिकजने, वरेण्यलक्षणोपेताभयदपदयुगलविधृतमने ||४||
२२ - श्रीनेमिनाथस्तुतिः (महास्त्रग्धराछन्दः) 22
जिनपं भावेन वन्दे सुरनरमहितं मान (नि) नीसङ्गशून्यं, प्रहतको प्रतापं प्रमुदितमनसं ध्यानचित्तादशून्यम् ! मथिताजन्यं प्रसन्नं विदलितमदनं शाश्वत श्रीनिदानं, सुकृताद्वैतप्रपन्नात्तिहरणविदुरं शङ्खलक्ष्मप्रधानम् ॥१॥ सकलार्थाः साधिता यैस्त्रिभुवनविनतास्तीर्थपाः सन्तु सिद्ध्यै, सतताभिप्रायविज्ञाः शमदमनिचिता ज्ञानसन्तानवृद्धयै ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22