Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ अनुसन्धान ३४ जिनपतिपादपयोरुहभक्तः, श्रितजिनशासनभासनमरक्तः । करतु कुमारसुरः शिवमिष्टं, न भवति यत्र कदाचन कष्टम् ॥४॥ १३ - श्रीविमलनाथस्तुतिः (प्रहर्षणी छन्दः) देवेन्द्रप्रणतपदं जिनं नमामः, चित्तं तच्चरणयुगे वयं रमामः । क्रोडाईं निखिलसमीहितार्थकारं, नैर्मल्यं सृजतु कृतामरोपहारम् ॥१॥ सर्वज्ञाः सकलगुणाभिरामदेहा, आदित्यधुतिभरदीप्तधामगेहाः । मुक्तिश्रीरमणकलाभिलाषवन्तः, कुर्युः शं हृदयभवं शिवं ब्रुवन्तः ॥२॥ सिद्धान्तो जिनवदना[व]तीर्यमाणः, साध्वोधैः श्रवणपुटावधार्यमाणः । भव्यानां शिवसदनाभिलाषुकानां, श्रेयोऽर्थं भवतु भयक्षयोत्सुकानाम् ॥३॥ विघ्नौघं जिनपदसेवके हरन्ती, सर्वाधिप्रशमसुखं जने करन्ती । सा भूयान्मम सुखमङ्गलादिकी, सर्वापत्प्रधनभयामयादिहीं ॥४॥ १४ - श्रीअनन्तजिनस्तुतिः (लक्ष्मीछन्दः)14 तं वन्दे सर्वभावज्ञानतत्त्वोपदेशं, दुष्कर्मध्वान्तनाशादित्यतेजोनिवेशम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22