Book Title: Varddhamanakshara Chaturvinshati Jin Stuti Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 9
________________ नवेम्बर सर्वे सर्वज्ञाः कुशलकराः, नानावर्णाकारवरतराः । संसाराब्धौ मग्नजनधराः, देयासुः शं मुक्तिपदवराः ॥२॥ श्रीसिद्धान्तो मे कुशलकरः, श्रीसर्वज्ञोक्तो दुरितहरः । जीयात्संसाराब्धिघटभवः, शश्वद्भक्तानां कृतविभवः ॥३॥ साऽशोकादेवी मम सुखदा, तेजःपुञ्जोद्दीततररदा । अर्हद्रक्त्युत्थप्रबलमदा, भूयाद्रव्याङ्गिप्रहतमदा ॥४॥ ११ - श्रीश्रेयांसजिनस्तुतिः (---छन्दसा)11 सकलसिद्धिविधानविदग्धं, दशमतोऽग्रिममीशममुग्धम् । अमितकामितदानसुरहू, श्रयत शोषितलोभमितहम्१० ॥१॥ जिनवरा: प्रदिशन्तु सतां शं, न लभते मरमर्द्विशतां शम् । हरिहराद्यपरः सुरसार्थः, प्रभुतया धृतयाऽपि कृतार्थः ॥२॥ जिनपतेर्वचनं भविकानां, भवत९ लब्धमहाभविकानाम् । दुरितसन्ततिसंहरणाय, प्रबलसंसृतिसंहरणाय ||३|| अखिलमङ्गलमूलविधात्री, गुरुतरोच्चलचिन्तितदात्री । विकटसङ्कटवल्लिकृपाणी, जिनमते जयताद्भुवि वाणी ॥४॥ १२ - श्रीवासुपूज्यजिनस्तुतिः (तामरसच्छन्दः)12 नमत सुरासुरसेवितपादं, वदनविभाजितशीतलपादम् । महिषधरं गतवेदविषादं, जलधरगर्जिगभीरनिनादम् ॥१॥ सकलजिनेशगणं विनुवेऽहं, हुतकनकधुतिसत्तमदेहम् । चरणमाहदि सुन्दरहारं, पदयुगलप्रणते हितकारम् ||२|| जिनवनवाग्विभवो मम सातं, दिशतु महोदयपत्तनजातम् । नयगमभङ्गभरप्रतिपूर्णः, कठिनपुराणतमस्कृतचूर्णः ॥३॥ १०. समुद्रम् । ११. प्राप्तमहन्मङ्गलानाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22