Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ नवेम्बर जिननिकरं, जनसुकरम् । कृतविभवं, भज विभवम् ।।२।। जिनवचनं, वररचनम् । शिवसुखदं, नयतु पदम् ॥३॥ अमलतरा, कमलकरा । वितरतु कं, कजजतुकम् ॥४॥ ६ - श्रीपद्मप्रभजिनस्तुतिः (रमणाछन्दसा) धरभूपभवं, वररूपरवम् । कृतकामजयं, श्रथधाममयम् ॥१॥ जिनराजगणं, नतभूरमणम् । शमताशरणं, कुरुताच्छरणम् ॥२॥ भगवत्समयः, शमशूकमयः । भवतान्तिहरः, शिवशान्तिकरः ॥३॥ सुमतः कुसुमः, सुरसालसमः । जनतेहितशं, तनुतादनिशम् ॥४॥ ७ - श्रीसुपार्श्वजिनस्तुतिः (मधुनामाछन्दः) कनकसमधनः, करत शमधनः । नतनरसुमनाः, शिवममलमनाः ॥१॥ सकलजिनपतीन्, विमलनरपतीन् । भजत मुनिजना ! विगलितवृजिनाः ॥२॥ गणधरगदितं, यतिततिविदितम् । शमरससहितं, कुरु हृदि सहितम् ॥३॥ जयति भगवती, विमलगुणवती । शुचिरुचिमवती, शशिकरसुदती ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22