Book Title: Varddhamanakshara Chaturvinshati Jin Stuti
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
12
अनुसन्धान ३४
दुरितं जहाति परिशीलित एव भव्यैः, प्रतिषेवणीय इति वाक्यचयस्स नव्यैः ॥३॥ जिनसेवके विपुलमङ्गलमादधानः, सुरकिन्नरः सकलसाध्यगणप्रधानः । दह(द?)तां धनानि जनताकृतकामितानि, सततं परोपकरणप्रवणस्ततानि ॥४॥
१६ - श्रीशान्तिनाथस्तुतिः
(पञ्चचामरच्छन्दसा)16 स शान्तिनाथनायकस्तमोभरक्षयङ्करः, करोतु कर्मसञ्चयप्रमोषणप्रियङ्करः । अनन्तसातदायकः शिवाभिलाषसम्भवं, सुखं विषादवर्जितं समग्रसौख्यतो नवम् ॥१॥ दिशन्तु मां जिना (रमां)विशालवंशसम्भवाः, प्रमत्तदत्तदेशना भवार्णवौघविद्रवाः । अनीतिभीतिघातका गुणावलीविभूषिता, महोदयास्पदस्थिताः कुसङ्गभङ्गयदूषिताः ॥२॥ जिनागमं श्रयाम्यहं शठावबोधदुस्तरं, प्रभूतभग्नसंशयप्रकाशितार्थविस्तरम् । अनेकभङ्गसङ्कुलं भवभ्रमव्यथाऽपहं, मुमुक्षुसङ्घसेवितं गतक्रुधं गुणावहम् ॥३॥ जिनेन्द्रपादपङ्कजोपजीवनाऽलिलालस:१४, सुशीलसाधुयातनाविधानकेलिसालसः । सुसम्पदं ददातु नो महीतलावभासिनी, स ब्रह्मशान्तिसेवक: प्रशस्यचारुहासिनीम् ॥४॥
१३. कर्मसमूहविनाशनेऽभीष्टः । १४. श्रद्धा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22