SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 12 अनुसन्धान ३४ दुरितं जहाति परिशीलित एव भव्यैः, प्रतिषेवणीय इति वाक्यचयस्स नव्यैः ॥३॥ जिनसेवके विपुलमङ्गलमादधानः, सुरकिन्नरः सकलसाध्यगणप्रधानः । दह(द?)तां धनानि जनताकृतकामितानि, सततं परोपकरणप्रवणस्ततानि ॥४॥ १६ - श्रीशान्तिनाथस्तुतिः (पञ्चचामरच्छन्दसा)16 स शान्तिनाथनायकस्तमोभरक्षयङ्करः, करोतु कर्मसञ्चयप्रमोषणप्रियङ्करः । अनन्तसातदायकः शिवाभिलाषसम्भवं, सुखं विषादवर्जितं समग्रसौख्यतो नवम् ॥१॥ दिशन्तु मां जिना (रमां)विशालवंशसम्भवाः, प्रमत्तदत्तदेशना भवार्णवौघविद्रवाः । अनीतिभीतिघातका गुणावलीविभूषिता, महोदयास्पदस्थिताः कुसङ्गभङ्गयदूषिताः ॥२॥ जिनागमं श्रयाम्यहं शठावबोधदुस्तरं, प्रभूतभग्नसंशयप्रकाशितार्थविस्तरम् । अनेकभङ्गसङ्कुलं भवभ्रमव्यथाऽपहं, मुमुक्षुसङ्घसेवितं गतक्रुधं गुणावहम् ॥३॥ जिनेन्द्रपादपङ्कजोपजीवनाऽलिलालस:१४, सुशीलसाधुयातनाविधानकेलिसालसः । सुसम्पदं ददातु नो महीतलावभासिनी, स ब्रह्मशान्तिसेवक: प्रशस्यचारुहासिनीम् ॥४॥ १३. कर्मसमूहविनाशनेऽभीष्टः । १४. श्रद्धा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229321
Book TitleVarddhamanakshara Chaturvinshati Jin Stuti
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages22
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size419 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy