________________
नवेम्बर
11
संसाराम्भोधिमज्जज्जन्तुपोतायमानं, श्येनाकं पङ्कपूरोद्भासमेघायमानम् ॥१॥ सर्वज्ञा विज्ञवित्ता वासमासं दधाना, भूयासुभूरिभूरिप्राज्यराज्यप्रतानाः । सम्पत्प्राप्त्यै वरेण्यागण्यपुण्यप्रतीता, मदनमायाऽभिमानक्रोधलोभव्यतीता: ॥२॥ सिद्धान्तः स्ताच्छिवाध्वप्राप्तिहेतुर्जनानां, नानाभङ्गैर्गभीरार्थप्रकाशो घनानाम् । पाप्महच्छेदकर्ता शासनाम्भोजभानुभूयिष्टोत्पत्तिबद्धाऽदृष्टकक्षे कृशानु:१२ ॥३॥ पाताल: सेवकानां शुद्धधीसंश्रितानां, सेवाहेवावशेन प्राप्तसर्वेप्सितानाम् । कुर्याद्धर्या महार्या सम्पदं स्फीतभीति:, कामप्रोद्दामधामा भग्नविघ्नौघभीतिः ॥४॥
१५ - श्रीधर्मनाथस्तुतिः
(ऋषभच्छन्दसा)15 जिनराजमुत्तमगुणाश्रयणीयदेहं कुलिशाङ्कितक्रममहं महिमैकगेहम् । धिषणाऽवधीरितगुरुं प्रणमामि नित्यं, त्रिदशाधिपक्षितिपतिप्रणताधिपत्यम् ॥१॥ जिनपा दिशन्तु कुशलं शिवसङ्गरङ्गा, वरकेवलद्धिकलिता गलिताङ्गसङ्गाः ।। समतारसार्णवनिमग्नमनोविनोदाः, सुकृताप्तिपुष्टजनताजनितप्रमोदाः ॥२॥ जिनवक्त्रतोऽर्थरचनावचनोपदिष्टः,
सुगणाधिपैः पठितपाठतयाऽतिदिष्टः । १२. प्रचुरजन्मसञ्चितकर्मवनेऽग्निधर्मः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org