________________
नवेम्बर
जिननिकरं, जनसुकरम् । कृतविभवं, भज विभवम् ।।२।। जिनवचनं, वररचनम् । शिवसुखदं, नयतु पदम् ॥३॥
अमलतरा, कमलकरा । वितरतु कं, कजजतुकम् ॥४॥
६ - श्रीपद्मप्रभजिनस्तुतिः
(रमणाछन्दसा)
धरभूपभवं, वररूपरवम् । कृतकामजयं, श्रथधाममयम् ॥१॥ जिनराजगणं, नतभूरमणम् । शमताशरणं, कुरुताच्छरणम् ॥२॥ भगवत्समयः, शमशूकमयः । भवतान्तिहरः, शिवशान्तिकरः ॥३॥ सुमतः कुसुमः, सुरसालसमः । जनतेहितशं, तनुतादनिशम् ॥४॥
७ - श्रीसुपार्श्वजिनस्तुतिः
(मधुनामाछन्दः) कनकसमधनः, करत शमधनः । नतनरसुमनाः, शिवममलमनाः ॥१॥ सकलजिनपतीन्, विमलनरपतीन् । भजत मुनिजना ! विगलितवृजिनाः ॥२॥ गणधरगदितं, यतिततिविदितम् । शमरससहितं, कुरु हृदि सहितम् ॥३॥ जयति भगवती, विमलगुणवती । शुचिरुचिमवती, शशिकरसुदती ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org