________________
8
८ - श्रीचन्द्रप्रभजिनस्तुतिः (प्रमाणिकाछन्दः) *
विशालवंशभूषणः, प्रणष्टकर्मदूषणः । ममाष्टमो जिनेशिता, तनोतु तां जगत्पिता ॥१॥ जिना दिशन्तु मे समे, समग्रसौख्यसङ्गमे । शिवालये पदं विभा - भरेण सूर्यसन्निभाः ॥ २॥ जिनोत्तमागमं सदा, कुरुध्वमानने मुदा । भवार्णवौधतारकं, विनोदवृन्दकारकम् ॥३॥ जिनेन्द्रपादपावितः प्रभूतभक्तिभाव (वि)त: ।
ददातु यक्षनायकः, समाङ्करस्मसायकः ॥४॥
Jain Education International
}
९- श्रीसुविधिनाथस्तुतिः (भद्रिकाछन्दसा) १
आनुवे सुविधिनायकं भव्यजन्तुभवतायकम् । कर्म्मशत्रुभटभञ्जनं, साधुलोककृतरञ्जनम् ॥१॥ शं दिशन्तु सुजिनेश्वराः सर्वजन्तुषु कृपापराः । सिद्धिसाधुरमणीवराः पादनम्रजनशङ्कराः ॥२॥ श्रीजिनागममहर्निशं संश्रयेऽहमतिसद्वशम् । क्षीरनीरनिधिसन्निभं सूक्तिशक्तिरिव निर्निभम् ॥३॥ यो जिनः, कुमतितान्तिदः साध्यराड् भवतु शान्तिदः । जैनशासनविभासनः प्राणिनां कृतसुवासनः ॥४॥
1
अनुसन्धान ३४
१० - श्रीशीतलजिनस्तुतिः
( --- छन्दसा ) 10
वन्देऽहं श्रीशीतलजनुषं, श्रीवत्साङ्कं काञ्चनवपुषम् । नन्दाजातं श्रीपतिविनतं मुक्तिप्राप्तं सुन्दररवितम् ॥१॥
९. अतिसन्तः - अत्युत्तमाः, तेषां वशे यस्या (योऽ) सावतिसद्वशस्तम् ।
For Private & Personal Use Only
www.jainelibrary.org