Book Title: Valmiki Ramayanam Part 02 Author(s): Amar Publication Publisher: Amar Publication View full book textPage 9
________________ Shri Mahavn Aradhana Kendra Acharya Shri Kalassagarsuri Gyarmandir श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेतश्रीरघुनन्दनपरब्रह्मणे नमः । श्रीमते रामानुजाय नमः ॥ श्रावधावं शठारेः शमदमवपुषः फुल्लवकारविन्दादालोच्यालोच्य वाचा प्रकृतिमधुरया प्रोच्य विद्धजनेभ्यः । गोविन्दार्यः सुधीशः कुशिककुलमणिगूढगाढाशयाढ्यं सम्यक् साकेतकाण्डं सरसजनमुदे सादरं व्याकरोति ॥ प्रथम काण्डे " एतस्मिन्नन्तरे विष्णुः” इत्यादिना “ यतो वा इमानि ” इत्यादिश्रुतिप्रतिपादितं जगत्कारणत्वम् “अहं वेद्मि महात्मानम्" इत्या । दिना पुरुषसूक्तोक्तमहापुरुषत्वम् “त्वमनादिरनिर्देश्यः” इत्यादिना अचिन्त्यवैभवत्वम् इत्येवं सर्वस्मात्परत्वमुक्तम् “ अधिक मेनिरे विष्णुम्" इत्यादिना तदितरेषामपरत्वं च । सम्प्रति तस्य हेयप्रत्यनीककल्याणकतानता प्रतिपाद्यते द्वितीयकाण्डेन । अथवा पूर्व वक्ष्यमाणधर्मानुष्ठानोपयोगि गच्छता मातुलकुलं भरतेन तदानघः । शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥१॥ तया रामायणपुरुषाणां महाकुलप्रसूतत्वमहागुरुकृपालब्धधनुर्वेदरहस्यत्वतत्संवादभूतताटकाताटकयादिनिरासहरधनुर्भङ्गवैष्णवचापपरिग्रहप्रभृति । गुणाः सहधर्मचारिणीयोगश्च सप्रपञ्च दर्शिताः । अथ तदनुष्ठिताः पितृवचनपरिपालनादिसामान्यधर्माः भगवच्छेपत्वपारतन्ध्यभागवताभिमाननिष्टा रूपविशेषधर्माश्च प्रतिपाद्यन्ते । पूर्वकाण्डे लक्ष्मीयोगो दर्शितः । अत्र भूमियोगः प्रदर्शित इत्यपि त्रुवते । पूर्व परत्वमुक्तम् अत्र सौलभ्यमित्यप्याहुः ।। पूर्व लक्ष्मीविशिष्टं प्राप्यस्वरूपमुक्तम्, प्राप्तृरूपजीवस्वरूपमत्र निरूप्यते । तत्र प्रथममतिरहस्यतयावश्यविज्ञातव्या लघूपपादनां भागवताभिमान निष्ठां शत्रुनानुष्ठानमुखेन दर्शयति-गच्छतेति । गच्छता वर्तमाननिर्देशेन शत्रुघ्नगमनस्य भरतगमनेनेककालत्वावगमादसिवसनादिवत्तस्य तदेक श्रीमदयोध्याकाण्डे व्याख्येयानि व्याक्रियन्ते-गच्छतेति । मातुलकुलं मातुलगृहम् , तदा पितृभ्रात्रनुज्ञानन्तरम् । अनघः सोदरो लक्ष्मणो बलवन्तं राममाश्रितः मयापि महदाश्रयः कर्तव्य इत्येवंविधकलुषबुद्धिरहित इत्यर्थः । नित्यशत्रुघ्नः-नित्यशत्रवः कामादयः तान हन्तीति तथा । नीत:-मातुलगृहवासजनितसौख्यादिक NI मुनिभावप्रकाशिका-भनयः जन्मप्रति लक्ष्मणो राममिव भरतानुवर्सनेन मातृपितृमातृवियोगदुःखरहितः । नित्यशः-नियमः चक्षुःश्रोत्रादीनि इन्द्रियाणि तानि जन्तीति नित्यशत्रुघ्नः जितेन्द्रिय इति यावत् । दृष्टिवितापहारिणि रामे आसक्तं क्षुरिन्द्रियं निगृह्य मरतेन सह गतत्वाजितेन्द्रियत्वं प्रत्यक्षसिद्धम् ॥1॥ विषम०-अनयः-अहमपि दाशरथिः मम आत्रनुवर्तने किमित्येवम् , अयं न वियते यस्य सः ॥ १॥ For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 691