Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥ २ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin स० १ पारतन्त्र्यं गम्यते । मातुलकुलं मातुलगृहम् । द्वितीयया भरतोद्देश्यस्यैव शत्रुघ्नांदेश्यत्वावबोधनाच्छेष्युद्देश्योद्देश्य कत्वरूपं पारतन्त्र्यमुच्यते । भगव टी. अ.का. उत्पारतन्त्र्यरूपं भागवतत्वमाह भरतेनेति । भरत इति राज्यस्य भरणादिति सहस्रानीक निर्वहणात् । रामे वनं गते तदनुसारिणि च लक्ष्मणे राजनि च त्रिदशसदनमुपसेदुपि केवलरामाज्ञया प्राज्यराज्यभारनिर्वाहकरणेनेत्यर्थः । तदा तद्गमनकाल एव । अनेन स्वानुकूलचन्द्रतारावलाद्यनपेक्षणोक्त्या पारतन्त्र्यमेव विशेषितम् । अनघः अस्मिन् प्रकरणे अपशब्दन केवलरामभक्तिरुच्यते, स्वशेषिभूत भरतोद्देश्यताकारेण हि शत्रुघ्नस्य रामभक्तिरुद्देश्या अतएव वक्ष्यति - "नाहं स्वपिमि जागर्भितमेवार्य विचिन्तयन्” इति । "जग्राह भरतो रश्मीन् शत्रुप्रश्छत्रमाददे" इति च । अनिष्टावहस्य पापशब्द वाच्यत्वात् स्वशेषिभरतोद्देश्यत्वाकारं विना रामभक्तेरनिष्टावहत्वात्तस्यापत्वम् " न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्त्तन्ते " इति श्रुतौ सुकृ तस्य मुमुक्षारनिष्टावहत्वेन पाप्मत्वव्यपदेशात् । शत्रुघ्नः शत्रून लवणासुरादीन् हनिष्यत्ययमिति भाविप्रतिसन्धानेन शत्रुभ इतिवसिष्टेन कृतनाम धेयः । नित्यशत्रुघ्नः नित्यशत्रवो ज्ञानन्द्रियाणि, शरीरे नित्यं सन्निधाय विषयान्तरप्रावण्यरूपविपरीतकार्यकारित्वात्ः तान् हन्तीति नित्यशत्रुघ्नः । इन्द्रिय निग्रहवानित्यर्थः । पुंसां दृष्टिचित्तापहारिण्यपि न मनेन्द्रियः : रामविषयभक्तिः स्वाधिकारविरुद्धेति तन्निवर्त्तनमस्य कार्य्यमेव । नीत इत्युक्तं न तु यया विति, तेनाचिद्वत्पारतन्त्र्यमुक्तम् । प्रीतिपुरस्कृतः किं करोमि ज्येष्ठानुवर्त्तनं कनिष्टेन कार्यमितिविधिपरतन्त्रो न गतः अपि तु प्रीतिप्रेरितोऽगच्छ दित्युक्तम् तेनाचितो व्यावृत्तिरुक्ता । प्रीतिरेव ह्यचेतनापेक्षया चेतनस्य विशेषः । भगवत्पारतन्त्र्यं तु चेतनाचेतनसाधारणमेव यद्यत्यन्तसारग्राही पुरुषः स्यात्तदा शत्रुभवद्भागवत परतन्त्रतया वर्त्तितव्यमिति व्यञ्जितम् । व्यञ्जनावृत्त्याभिमतार्थप्रदर्शनं ह्युत्तमकाव्यकृत्यम् ॥ १ ॥ तनिकी-मातुलकुलं मातुलगृहम“ कुलं जनपद गृहे " इति निघण्टुः । भरतस्य मातुलकुलमुद्देभ्यम्, शत्रुन्नम्य तु भरतः । युधाजित्खलु भरतमेवानेतुमागतः। गच्छति वर्तमाननिर्देशन भरतगमनकाले गन्तव्यमिति मनसि न स्थितम् न च दशरथेन रामेण वानुज्ञात इति व्यज्यते । भरतेन रामे वनं गते लक्ष्मणे तदनुवर्तिनि दश रथं स्वर्गत अनेनैव रामराज्यं भर्नव्यमिनि भाविज्ञानयतो वसिष्ठाच्यभरतनामधेयेन तदा स्वस्यापि राजपुत्रत्वेन नक्षत्रानुगुणमुहूर्तादिके विचारणीयेऽपि तन्मुहूर्त एव स्वस्यापि सुमुहूर्त इति गतः। अनघः कामादिहेतुकव्यसनरहितः। यद्वा एतदपेक्षया अयोध्या स्थितजनन्सर्वोप्यपवानंव, तस्य रामभक्तिमिश्र भरतभक्तित्वात् । रामभक्तेः पापत्वं म्वादश्यभरतभक्तिविरोधित्वात । अत्रश्यविरोधित्वमेव हि पापत्वम, पापापक्षया पुण्यम्पोत्कृष्टत्वेपि स्वदृश्यमा अविरोधित्वात्खलु पापत्वम् । प्रथमावधिनिष्ठा चरमावधि निष्टाविरोधिनी । शत्रुनः जननकाले संहननदर्शनेनायं नकलशत्रु महतां भविष्यतीति निष्ठेन नामकरणं कनम् । अस्यामनुष्यत्वात् "अमनुष्यकर्तृकं च" इति ठक् । नित्य For Private And Personal Use Only ॥ २ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 691