Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah
View full book text
________________
०००००nopoon
-
000000000000000000000000000
0000000000000000000000000
देवपूजा दया दानं दाक्षिण्यं दमदक्षते । यस्यैते षड् दकाराः स्युः स देवांशी नरः स्मृतः ॥ १॥
यथा श्रीविक्रमादित्यः कल्याणमन्दिरावसरे श्रीसिद्धसेनप्रकटीकृतमहाकालालङ्कारश्रीपार्श्वनाथप्रतिमात्रिकालपूजापुण्यमकरोत् ; तेन चैकदा हस्तिस्कन्धादवतीर्य निच्छारकपतितशालिकणाः शीर्षे दत्ताः, तदा धान्याधिष्ठायिका देवी सन्तुष्टा, ततो दुर्बललोकानुकम्पया मालवके दुर्भिक्षाऽभाववरो मार्गितः, प्रदत्तश्चाऽचन्द्राकम् । अद्यापि दुर्भिक्षे दुर्बललोकाधारो मालवकः । तथा च स्वर्णपुरुषसिद्ध्या यावज्जीवाहदानेन पृथिवी अनृणा कृता। स्वसंवत्सरः प्रवर्तितः । आर्ते दर्शनमागते दशशती संभाषणे चायुतं यहाचा च हसेऽहमाशु भवता निष्कोऽस्य विश्राण्यताम् । निष्काणां परितोषणे मम पुनः कोटिर्मदाज्ञापरा कोशाधीश ! सदेति विक्रमनृपश्चके वदान्यः स्थितिम् ॥२॥
तथा दाक्षिण्यं सर्वेषां हितावहं परार्थसाधकं विप्रादीनां परकायप्रवेशविद्यादीनां दापनम् । दम उपशमः, I शत्रुञ्जयोद्धारादिपुण्यैः संसारविरागः।
संपइविक्कमबाहडहालपलित्ताऽऽमदत्तरायाई । जं उद्धरिहन्ति विहि तं सत्तुञ्जयमहातित्थं ॥ ३ ॥ दक्षता सर्वावसरसाधनसावधानता । अत्र विक्रमचरित्रं वाच्यम् ॥ इत्य/पदेशः ४३ ॥
(२२३)
0000000000000000000000000000000

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313