Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah
View full book text
________________
Mp00000
0000000000000000o0o0oooooooooooo
। यच्चक्रिताऽऽप्ता भरतेश्वरेण, बाहूबलिर्बाहुबली बभूव। सनत्कुमाराऽभयशालिभद्रा रूपईिधीभोगयुताः क्रमेण॥५॥ यदम्बुचीवो नृपतिर्बभूव, नन्दस्य यल्लेप्यनरैरयोधि । स्थालं सुभूमस्य बभूव चक्रं, तद्धर्ममाहात्म्यमिदं वदन्ति॥६॥
यष्टिः करात् कण्डुनृपस्य विद्युत् , पुण्याढयभूपस्य तृणं तु वज्रम् । रक्षाऽभवत् पाण्डुमुवां सुरङ्गा तद् धर्मविस्फूर्जितमामनन्ति ॥ ७ ॥ धन्योऽधिको यत्स्वसहोदरेभ्यो न्यासे निधि प्राप च वस्तुपालः।
यजीवितं चाऽऽप कुमारपालस्तद् धर्ममाहात्म्यमुदाहरन्ति ॥ ८ ॥ ___ तथा धर्मस्य जलधिमेघादय आदेशकारिणः, तद्यथा-द्विलक्षयोजनविस्तार१६सहस्रयोजनप्रमाणोच्चशिखो लवणसमुद्रो वेलन्धरदेवताधार्यमाणजलनिचयो यज्जम्बूद्वीपं न प्लावयति, मर्यादां च न मुञ्चति; तद् | 'धर्ममाहात्म्यम् । यतः--
आप्लावयति नाऽम्भोधिराश्वासयति चाऽऽम्बुदः । यन्महीं, तत्प्रभावोऽयं ध्रुवं धर्मस्य केवलम् ॥ ९॥ न ज्वलत्यनलस्तिर्यग् यदूर्ध्व वाति नाऽनिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥१०॥ तथा मेघोऽपि धर्मानुसारेण वर्षति । यथा--चत्तारि मेहा पन्नत्ता-पुक्खलसंवट्टए नाम एगे,जीमूए नाम एगे,
-00000००००००००००००००००००००००००००००००००००००००००००००००००
0000000000000000

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313