Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah

View full book text
Previous | Next

Page 271
________________ श्रीसर्वज्ञप्रणीतधर्मं सृजतां पुंसामेते पदार्थाः संपनीपद्यन्ते । कथमिति १, मङ्गलानि द्विधा लोके प्रोक्तानि मुनिपुङ्गवैः । सद्द्रव्यभावभेदाभ्यां तद्भावा बहवोऽत्र च ॥ २ ॥ दधिदूर्वाऽक्षतचन्दनवर्धापनबन्दिवृन्दजयवादाः । सर्वेभ्योऽभ्यधिकतरं मङ्गल्यं धर्म एव सर्वत्र ॥ ३ ॥ दधिमधुघृतदूर्वाचन्दनेन्दीवराणि ध्वजगजचमराश्च च्छत्रसिंहासनानि । कमलकलशवीणावेणुभृङ्गारहाराः श्रवणवचनवीक्षास्पर्शनैर्मङ्गलानि ॥ ४ ॥ दप्पणभद्दासणवद्धमाणसिरिवच्छमच्छवरकलसा । सत्थीनंदावत्ता कहिया इह अट्ठ मंगलया ||५|| देवपूजा गुरोः पूजा विवाहादिमहोत्सवाः । बन्दिनां जयवादाश्च भवन्ति कृतिनां गृहे ॥ ६ ॥ बाला वो तुरयाण हिंसणं बंदिविदनिग्घोसो | गुरुओ मंथासदो धन्नाण घरे समुच्छलइ ॥ ७ ॥ एतानि द्रव्यमाङ्गलिकानि कृतपुण्यानां गृहे भवन्ति । यतः हस्तीन्द्रा मदभिन्नगलकरटास्तिष्ठन्ति निद्रालसा द्वारे हेमविभूषिताश्च तुरगा हेषन्ति यद् दर्पिताः । वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यो बोध्यते तत्सर्व सुरलोकभूतिसदृशं पुण्यस्य विस्फूर्जितम् ॥ ८ ॥ दृष्टान्ताः श्रीशान्तिनाथचक्रवर्त्यादीनाम् ।

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313