Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah
View full book text
________________
00000000000000000000000000000000000000000000000000
नृपकुले गुरुता विमलं यशो भवति पुण्यतरोः फलमीदृशम् ॥ १॥ यादवेक्ष्वाकुव्यवहारिकुलेपूत्पत्तिः पुण्यादेव भवति । यतः-- राज्यं सुसंपदो भोगाः कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥ २ ॥
कुलोत्पत्तिरपि विभूत्या भ्राजते । यथा-श्रीराम उत्तमकुलजोऽपि वनवासे वसिष्ठेन स्वाश्रमे प्राप्तेऽपि निर्धनत्वाद् नालापितः। रावणजयं लङ्काधिपत्यं प्राप्य पश्चात्तदाश्रमे प्राप्तः, तेन संमुखोत्थानाऽऽसनदानादिना भृशं संमानितः। तदा रामेणोक्तम्--
स एव त्वं स एवाहं स एव च त्वदाऽऽश्रमः । पूर्व नैवादरः कोऽपि साम्प्रतं केन हेतुना ? ॥ ३ ॥ वसिष्ठवचः-- स एव वं स एवाहं स एव च मदाऽऽश्रमः । पूर्व तु निर्धनोऽभूस्त्वं सांप्रतं तु पुरन्दरः ॥ ४ ॥
धनमर्जय काकुत्स्थ ! धनमूलमिदं जगत् । अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च ॥ ५॥ जिण दिण चित्त न अप्पणइ तिण दिणि मित्त न कोइ। सूरह कमलह मित्त पुण जल विणु वयरी सोइ॥६॥
कापि ग्रामे घेघामेघाऽभिधौ द्वौ बान्धवौ वसतः स्म । घेघा धनी, मेघा निर्धनः। भगिन्या स्वपुत्रोद्दाहे भोज
- 900000000000000000०००००००००००००००००००००००००००
-

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313