SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000000000000000000000000000000 नृपकुले गुरुता विमलं यशो भवति पुण्यतरोः फलमीदृशम् ॥ १॥ यादवेक्ष्वाकुव्यवहारिकुलेपूत्पत्तिः पुण्यादेव भवति । यतः-- राज्यं सुसंपदो भोगाः कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं विदुः ॥ २ ॥ कुलोत्पत्तिरपि विभूत्या भ्राजते । यथा-श्रीराम उत्तमकुलजोऽपि वनवासे वसिष्ठेन स्वाश्रमे प्राप्तेऽपि निर्धनत्वाद् नालापितः। रावणजयं लङ्काधिपत्यं प्राप्य पश्चात्तदाश्रमे प्राप्तः, तेन संमुखोत्थानाऽऽसनदानादिना भृशं संमानितः। तदा रामेणोक्तम्-- स एव त्वं स एवाहं स एव च त्वदाऽऽश्रमः । पूर्व नैवादरः कोऽपि साम्प्रतं केन हेतुना ? ॥ ३ ॥ वसिष्ठवचः-- स एव वं स एवाहं स एव च मदाऽऽश्रमः । पूर्व तु निर्धनोऽभूस्त्वं सांप्रतं तु पुरन्दरः ॥ ४ ॥ धनमर्जय काकुत्स्थ ! धनमूलमिदं जगत् । अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च ॥ ५॥ जिण दिण चित्त न अप्पणइ तिण दिणि मित्त न कोइ। सूरह कमलह मित्त पुण जल विणु वयरी सोइ॥६॥ कापि ग्रामे घेघामेघाऽभिधौ द्वौ बान्धवौ वसतः स्म । घेघा धनी, मेघा निर्धनः। भगिन्या स्वपुत्रोद्दाहे भोज - 900000000000000000००००००००००००००००००००००००००० -
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy