Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah

View full book text
Previous | Next

Page 273
________________ 00000000000000000000000000000000000000000000000000000 कुंकुम कज्जल केवडउ कंकण कूर कपूर । कामिणि कंचण कप्पडा ए पुण्णह अंकूर ॥ १७ ॥ तथा इष्टार्थसिद्धिः-- यात्रापदप्रतिष्ठासाधर्मिकवत्सलानि च विवाहाः । इप्टार्थसिद्धयः सर्वाः संपद्यन्ते सुधर्मतः ॥ १८ ॥ यतः-अर्जयति व्यवसाये क्षेत्रे पच्येत जयति युद्धे । रोगादेवति सदा धर्मोऽभीष्टार्थसिद्धयै स्यात् ॥१९॥ पुण्यादेव समीहितार्थघटना नो पौरुषात् प्राणिनां यद् भानोभ्रंमतोऽपि नाऽम्बरतले जातस्तुरङ्गोऽष्टमः। स्वस्थानात् पदमेकमप्यचलतो वन्ध्यस्य चानेकशो जायन्ते मधुपालिपालितयशःश्रीलम्भिनः कुम्भिनः॥२०॥ दृष्टान्तो यथा-उद्यम कुर्वतां पुंसां भाग्यं सर्वत्र कारणम् । समुद्रमथनालेभे हरिलक्ष्मी हरो विषम् ॥२१॥ लौकिकी कथा ॥ पुण्याभावे मनोरथभङ्ग एव स्यात् । यतःवनकुसुमं कृपणश्रीः कूपच्छाया सुरङ्गधूली च । तत्रैव यान्ति विलयं मनोरथः पुण्यहीनानाम् ॥ २२ ॥ कच्छपः कुरुते वाञ्छां यदि स्यात् कर्दमो गुडः । मण्डकाः पद्मिनीपत्राण्यम्भो राज्यं तदाऽम्यहम् ॥२३॥ निष्पुण्यकच्छपमनोरथकथावदभाग्यशेखरप्राप्तसक्तुनाशकथा ॥ तथा बहुला बुद्धिः-औत्पातिकी वैनयिकी कार्मिकी पारिणामिकी । चतुर्धा बुद्धयः प्रोक्ता धन्यानां सुकृताश्रिताः। (२६१) 20000000000000०००००००000000000000000००००००००००००००

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313