Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah
View full book text
________________
oooooooooooooooooooooooooooooooooooooooooo
पज्जन्ने नाम एगे, जिम्हे नाम एगे।
पुक्खलसंवट्टएणं महामेहेणं एगेणं वासेणं दसवाससहस्साई भावेइ । जीमूएणं महामेहेणं एगेणं वासेणं । दसवासाइं भावेइ । पज्जन्नेणं महामेहेणं एगेणं वासेणं दसवाससयाइं भावेइ । जिम्हेणं मेहेणं बहूहिं वासेहिं एगं वासं भावेइ, नो भावेइ वा। ___ एवं यथा यथा धर्मस्य हानिस्तथा तथा मेघस्यापि जिह्मता॥धर्मवृद्धौ सर्वरसानां वृद्धिः--युगादिदेववारके मृत्तिका शर्करोपमा, घृतस्नहश्चानन्तगुणः, सर्वप्रकारप्रजावृद्धिश्च । किञ्च-सूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ११ ॥
तथा धर्मतः सुरेन्द्रचक्रवर्तिवासुदेवादिभिः संपदो भुज्यन्ते। यथा-सौधर्मेन्द्रस्य ३२लक्षविमान ८४सहस्रसामानिकदेव ८इन्द्राणीप्रभृतिप्रभुता, तथा ६खण्डभरत३२सहस्रदेश९निधान१४रत्न९६कोटिग्राम९६कोटिपायक८४लक्षगजतुरङ्गमरथ६४सहस्रान्तःपुरी १लक्ष २८सहस्रवाराङ्गना ३२सहस्रमकुटबद्धनृपसेव्यमानतादिप्रभुता चक्रिणां भवति; तदर्ध वासुदेवानां राज्यं भवति, तथा धर्मस्यादेशकारिणश्चिन्तामणिकामधेनुकामकुम्भदक्षिणावर्तशङ्खकृष्णचित्रावलिस्पर्शपाषाणकल्पवृक्षादिपदार्थाः संभवन्ति । यथा युगलिनां धर्मोदये कल्पवृक्षा
(२५६)
-००००००००००००००००००००००००००००००००००००००००००००००००००००००

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313