Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah
View full book text
________________
200000000000000000000000000000000 0000000000000000०
00000000000000000000000000000
देवं पूजयतो दयां विधतः सत्यं वचो जल्पतः सद्भिः सङ्गमनुज्झतो वितरतो दानं मदं मुञ्चतः। यस्येत्थं पुरुषस्य यान्ति दिवसास्तस्यैव मन्यामहे गोत्रं जन्म च जीवितं च सफलं श्लाघ्या कथा चाग्रिमा॥२॥ निद्रान्ते परमेष्ठिसंस्मृतिरथो देवार्चने व्यापृतिः साधुभ्यः प्रणतिः प्रमादविरतिः सिद्धान्ततत्वश्रुतिः। सर्वस्योपकृतिः शुचिव्यवहतिः सत्पात्रदाने रतिः श्रेयोनिर्मलधर्मकर्मनिरतिः श्लाघ्या नराणां स्थितिः॥३॥ कृत्वाऽर्हत्पदपूजनं यतिजनं नत्वा विदित्वाऽऽगमं हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वाऽन्तरारिव्रज स्मृत्वा पञ्चनमस्कियां कुरु करकोडस्थमिष्टं सुखम् ॥४॥
दृष्टान्तो यथा--चम्पायां जिनदासः श्रादस्त्रिसन्ध्यजिना द्विवारप्रतिक्रमणप्रत्याख्यानकरणपरः साधुसेवापरायणः परिवसति स्म । सोऽन्यदा स्वकार्यसाधनसावधानोऽष्टम्यां निशिशुन्यगृहे पौषधं गृहीत्वा कायोत्सर्गे स्थितः, देवात्परपुरुषासक्तया भार्यया तं शुन्यागारे स्थितमजानन्त्या लोहतीक्ष्णकालिकाञ्चितपादा खटा तत्र गृहे क्षिप्ता, कायोत्सर्गस्थजिनदासपादः कीलकेन विद्धः। महाव्यथायां जाततन्मिथुनमेलापकभारोत्पन्नायां स चिन्तयति स्म
सह कलेवर ! खेदमचिन्तयन् ववशता हि पुनस्तव दुर्लभा।
50000000000000

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313