Book Title: Updesh Tarangini
Author(s): Ratnamandir Gani
Publisher: Harshchandra Bhurabhai Shah

View full book text
Previous | Next

Page 257
________________ सप्तक्षेत्र्यां वपनेन चपलकमलासफलीकरणं स्यात्; तथा ६रीपालनेन चतुर्डी दानशीलतपोभावनादिसुकृतप्राप्तिः स्यात् । तथा स्थाने स्थाने महामहोत्सवेन परेषां चमत्कारकरणेन तीर्थोन्नतिर्जिनशासनप्रभावना स्यात् , तीर्थङ्करगोत्रकर्मबन्धः स्यात् परभवे । दृष्टान्तो यथा-थारापद्नगरे लघुकाश्मीरापराभिधाने पश्चिममण्डलीकबिरुदः श्रीश्रीमालज्ञातीयः सं आभूः। यस्य यात्रायां सप्तशतदेवालयाः एकसहस्रपञ्चशतदशोत्तरजिनबिम्बानि ४सहस्रशकटानि पञ्चसहस्राणिं तुरङ्गमाणाम् , २२ शतोष्ट्राः, ९० सुखासनानि, ९९ श्रीकर्यः ७ प्रपाः ४२ जलवाहिबलीवर्दाः, ३ जलवाहिमहिपाः; शतं रन्धनकटाहिकानि, ३६ सूरयः, शतं कान्दविकानाम्, शतं सूपकाराणाम् , शतद्वयं मालाकाराणाम् , शतं ताम्बूलिकानाम् , १ शतं ३६हट्टानि १४लोहकाराः १६सूत्रधाराः; एवं १२कोटिस्वर्णव्ययः; इत्यादिबहुपरिवारपरिवृतः श्रीशत्रुञ्जयतीर्थयात्रां पञ्चवर्णपट्टकूलसहस्रध्वजाप्रदानादिबहुविस्तरसुभगां कृतवान् । तेनैव एककोटिसुवर्णटङ्ककैः श्रीज्ञानकोशे ६ लक्ष ३९ सहस्रप्रमाणसिद्धान्तप्रतिरेका सौवर्णाक्षरा, द्वितीया सर्ववर्तमानग्रन्थानां मष्यक्षरमयी प्रतिर्लेखिता; तथा ३६० श्राद्धा आत्मसदृक्षाः कृताः, हा प्रत्यहं स्नात्रसाधर्मिकवात्सल्यसङ्घार्चाप्रभावनाकरणार्थम्। तेनैव च भूनेतामहांकूग्रामयोः सारूआरघाटमयौ हौ प्रासादौ कारितौ। सारूआरघाट इति किमुच्यते ? यस्यैकप्रासादस्य मूल्येन अन्ये सामान्याः कोरणीरहिताः ८४ (२४५) -50000000000000000000000000000000000000000000000000000000

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313