SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ०००००nopoon - 000000000000000000000000000 0000000000000000000000000 देवपूजा दया दानं दाक्षिण्यं दमदक्षते । यस्यैते षड् दकाराः स्युः स देवांशी नरः स्मृतः ॥ १॥ यथा श्रीविक्रमादित्यः कल्याणमन्दिरावसरे श्रीसिद्धसेनप्रकटीकृतमहाकालालङ्कारश्रीपार्श्वनाथप्रतिमात्रिकालपूजापुण्यमकरोत् ; तेन चैकदा हस्तिस्कन्धादवतीर्य निच्छारकपतितशालिकणाः शीर्षे दत्ताः, तदा धान्याधिष्ठायिका देवी सन्तुष्टा, ततो दुर्बललोकानुकम्पया मालवके दुर्भिक्षाऽभाववरो मार्गितः, प्रदत्तश्चाऽचन्द्राकम् । अद्यापि दुर्भिक्षे दुर्बललोकाधारो मालवकः । तथा च स्वर्णपुरुषसिद्ध्या यावज्जीवाहदानेन पृथिवी अनृणा कृता। स्वसंवत्सरः प्रवर्तितः । आर्ते दर्शनमागते दशशती संभाषणे चायुतं यहाचा च हसेऽहमाशु भवता निष्कोऽस्य विश्राण्यताम् । निष्काणां परितोषणे मम पुनः कोटिर्मदाज्ञापरा कोशाधीश ! सदेति विक्रमनृपश्चके वदान्यः स्थितिम् ॥२॥ तथा दाक्षिण्यं सर्वेषां हितावहं परार्थसाधकं विप्रादीनां परकायप्रवेशविद्यादीनां दापनम् । दम उपशमः, I शत्रुञ्जयोद्धारादिपुण्यैः संसारविरागः। संपइविक्कमबाहडहालपलित्ताऽऽमदत्तरायाई । जं उद्धरिहन्ति विहि तं सत्तुञ्जयमहातित्थं ॥ ३ ॥ दक्षता सर्वावसरसाधनसावधानता । अत्र विक्रमचरित्रं वाच्यम् ॥ इत्य/पदेशः ४३ ॥ (२२३) 0000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy