SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ v0000000000000000०००००००००००००००00000000000... पूज्यपूजा दया दानं तीर्थयात्रा जपस्तपः । श्रुतं परोपकारस्य मयंजन्मफलाष्टकम् ।। १ ॥ मनुष्यजन्मकल्पद्रोः फलाष्टकं ग्राह्यम् । यदुक्तम्त्रिसन्ध्यं देवार्चा विरचय चयं प्राप यशसः श्रियः पात्रे वापं जनय नयमार्ग नय मनः । स्मरक्रोधाद्यारीन् दलय कलय प्राणिपु दयां जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ २॥ पूजाफलं यथा कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं विदूरे दारिद्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमदयो न मुञ्चत्यभ्यर्ण सुहृदिव जिनार्चा रचयतः ॥ ३ ॥ दृष्टान्तो यथा-चन्द्रावतीनगरीशेन श्रीविमलदण्डनायकेन वकारितार्बुदाचलमण्डनश्रीविमलवसतिमूलनायक १८भारमितवर्णमिश्ररीरीमयसपरिकर ५१अङ्गुलप्रमाणाऽऽदीश्वरस्य प्रत्यहस्नात्रध्वजारोपोत्सवार्थ मुण्डस्थलादि३६०ग्रामेषु प्राग्वाटा वासिताः, सर्वप्रकारकरमोचनाद्यनेकोपकारकरणेन महाधनाढ्याः कृताः, ततः प्रत्यहं स्वचारकक्रमेण मुण्डस्थलादिश्रीसङ्घः स्नात्रादिपुण्यानि व्यधीयन्त ॥ इत्यर्थोपदेशः ४४ ॥ (२२४) ००००००००000000000000000000000000000000000000001
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy