________________
00000000000000000000000000000000000000000000000000000.
देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां षट् कर्माणि दिने दिने ॥ १॥
यथा गृहाट्टपत्तनव्यवसायकुटुम्बचिन्ताधनार्जनादिकर्माणि गृहिणामहिकसाधकानि, परं श्राद्धानामिमानि षट् कर्माणि महालाभकराणि नित्यं कर्तव्यान्येव । श्रावकाणां सिद्धान्तेऽयमेव धर्मः कथितः। यतः
त्रैकाल्यं जिनपूजनं प्रतिदिनं सङ्घस्य संमाननं स्वाध्यायो गुरुसेवनं च विधिना दानं तथाऽऽवश्यकम् । शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा सैष श्रावकपुङ्गवस्य कथितो धर्मो जिनेन्द्रागमे ॥ २ ॥ ___मण्डपदुर्गे सं०कुँवरपालेन प्रत्यहाटवारं पूजा, प्रतिप्रहरं पृथक्धौतपटनवनवाङ्गीकरणादिना सीतामहासतीकारितश्रीसुपार्श्वप्रतिमाया गोक्षीरस्नात्रकरणपूर्व यावज्जीवं निद्राविकथादिप्रमादं त्यक्त्वा सर्वशक्त्या कृता ॥
॥ इत्यर्थोपदेशः ४५ ॥
302००००००००००००००००००००००००००००००00000000000000
देवं श्रेणिकवत्प्रपूजय गुरुं वन्दख गोविन्दवत् दानं शीलतपःप्रसङ्गसुभगां चाभ्यस्य सद्भावनाम् । श्रेयांसश्च सुदर्शनश्च भगवानाद्यः स चक्री यथा धर्मे कर्मणि कामदेववदहो! चेतश्चिरं स्थापय ॥ १॥ यदि रे आत्मन् ! आगामिभवे सुखमिच्छसि तदैतानि पुण्यानि कुरु । यथा-श्रीश्रेणिकनरेन्द्रवद् वीतरागं
(२२५)
IY
-
-